________________
श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः]
[९७ करोति, अथ कृतं च सम्यगालोचयति १कुलसंपन्नोङ्गीकृतप्रायश्चित्तस्य वोढा भवति २। विनयसंपन्नो वन्दनादिकाया आलोचनासमाचार्याः प्रयोक्ता भवति ३ज्ञानसंपन्नः कृत्याकृत्यविभागं जानाति ४ दर्शनसंपन्नप्रायश्चित्ताच्छुद्धिं श्रद्धत्ते ५ चारित्रसंपन्नः प्रायश्चित्तमङ्गीको ति ६क्षान्तोगुरुभिरुपालम्भितो न कुप्यति ७दान्तोदान्तेन्द्रियतया शुद्धि सम्यग् वहति ८।अमायीअगो पयन्नपाधमालोचयति ९। अपश्चात्तापी आलोचितेऽपाधे पश्चात्तापमकुर्वन्नि भागी भवतीति १० आयावमित्यादि । तत्राचारवान्-ज्ञानादिपञ्चप्रकाराचारयुक्तः१श आहारवंति आलोचितापाधानामवधारणावान् २। ववहारवंति आगमश्रुतादिपञ्चप्रकारव्यवहाणामन्यतरयुक्त : ३/उव्वील त्ता अपव्रीडक: लज्जयातिचारान् गोपायन्तं विचित्रवचनैर्विलज्जीकृत्य सम्यगालोचनाकारयितेत्यर्थः ४। पकुव्वएत्ति आलोचितेष्वपाधेषु प्रायश्चित्तदानतो विशुद्धि कारयितुं समर्थ: ५। अपरिस्सावित्ति आलोचके नालोचितानपराधानन्यस्मै न कथयतीत्यसावपरिश्रावी ६।निज्जवत्ति निर्यापक असमर्थस्य प्रायश्चित्तिनः प्रायश्चित्तस्य खण्डशः करणेन निर्वाहक: ७अवायदंसित्ति आलोचनाया अदाने पारलौकिकापायदर्शनशील: ८। इति । अनन्तरमालोचनाचार्य उक्तः, स च सामाचार्याः प्रवर्तको भवतीति तां प्रदर्शयन्नाह-'दसविहा सामायारी'त्यादि। प्रतीता चेयम्। नवरम्-आपृच्छा-कार्ये प्रश्न इति, प्रतिपृच्छा तु-पूर्वनिषिद्धे कार्ये एव। छन्दना-पूर्वगृहीतेन भक्तादिना। निमन्त्रणा त्वगृहीतेन । उपसंपच्च-ज्ञानादिनिमित्तमाचार्यान्तराश्रयणमिति। अथ सामाचारीविशेषत्वात् प्रायश्चित्तस्य तदभिधातुमाह-'दसविहे'त्यादि इह प्रायश्चित्तशब्दोऽपा धे तच्छुद्धौ च दृश्यते, तदिहापाधे दृश्यः, तत्र 'आलोअणारिहे'त्ति आलोचनानिवेदना तल्लक्षणां शुद्धिं यदर्हत्यतिचारजातं तदालोचनार्हम्, एवमन्यान्यपि केवलं प्रतिक्रमणं मिथ्यादुष्कृतं, तदुभयं आलोचनामिथ्यादुष्कृते, विवेको-ऽशुद्धभक्तादित्यागो, व्युत्सर्गः कायोत्सर्गः, तपो निर्विकृतिकादि, च्छेदः-प्रव्रज्यापर्यायहस्वीकरणं, मूलं-महाव तारोपणम्, अनवस्थाप्यं-कृततपसो व्रतारोपणं, पाराञ्चिकं-लिङ्गादिभेदमिति। श्रीभगवतीपञ्चविंशतितमशतकसप्तमोद्देशके ८०६ प्रतौ५६० पत्रे ॥१९॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील
श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे प्राच्यतटे विशेषसमुच्चयापरनाम्नि
श्रीभगवतीविचारनामा पञ्चमस्तरङ्गः।।५।।
D:\ratan.pm515th proof