________________
९६]
[ श्रीविचाररत्नाकरः तेषु चेह प्रक्रमात्तपो गृह्यते ततश्चोत्तरगुणलब्धि- तपोलब्धि क्षममाणस्य- अधिसहमानस्य, तपः कुर्वत इत्यर्थ: । 'कहं सीहा गइ' त्ति कीदृशी शीघ्रा गतिः - गमनक्रिया ? 'कहं सीहे गतिविसए'त्ति कीदृशः शीघ्रो गतिविषयः गतेः शीघ्रत्वेन तद्विषयोऽप्युपचाराच्छीघ्र उक्तः । गतिविषयो-गतिगोचरः गमनाभावेऽपि शीघ्रगतिगोचरभूतं क्षेत्रमित्यर्थः । ‘अयण्ण’मित्यादि अयंजम्बद्वीप एवम्भूतो भवति । ततश्च 'देवे ण'मित्यादि । ‘हव्वमागच्छेज्जा' इत्यत्र यथा शीघ्राऽस्य देवस्य गतिरित्ययं वाक्यशेषो दृश्यः । 'से णं तस्स ठाणस्से'त्यादि । अयमत्र भावार्थो - लब्ध्युपजीवनं किल प्रमादः । तत्र चासेविते अनालोचिते न भवति चारित्रस्यराधना, तद्विराधकश्च न लभते चारित्राराधनाफलमिति । यच्चे होक्तं- 'विद्याचारणस्य गमनमुत्पादद्वयेन आगमनं चैकेन । जङ्घाचारणस्य तु गमनमेकेन, आगमनं च द्वयेनेति, तल्लब्धिस्वभावात्' । अन्ये त्वाहुः 'विद्याचारणस्यागमनकाले विद्याऽभ्यस्ततरा भवतीत्येकेनागमनं, गमने तु न तथेति द्वाभ्याम्। जङ्घाचारणस्य तुलब्धिरुपजीव्यमानाऽल्पसामर्थ्या भवतीत्यागमनं द्वाभ्यां गमनं चैकेनैवेति'। । भगवतीविंशतितमशतके नवमोद्देशके ८०६ प्रतौ ५१५ पत्रे ॥ १८० ॥
आलोचनाग्राहकालोचनाचार्यस्वरूपदशविधसामाचारीस्वरूपदशविधप्रायश्चित्त
स्वरूपजिज्ञासया सूत्राणि लिख्यन्ते
१' दसहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसं आलोइत्तए तं जहाजातिसंपन्ने १ कुलसंपन्ने २ विणयसंपन्ने ३ णाणसंपन्ने ४ दंसणसंपन्ने ५ चरित्तसंपन्ने ६ खंते ७ दंते ८ अमाई ९ अपच्छाणुतावी १० । अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पच्छित्तए तं जहा - आयारखं १ आहारवं २ ववहारखं ३ उव्वीलए ४ पकुव्वए ५ अपरिस्सावी ६ निज्जवए ७ अवायदंसी ८ । देसविहा सामायारी पण्णत्ता । तं जहा
इच्छा १ मिच्छा २ तहक्कारे ३, आवसिया ४ य निसीहिया ५ । आपुच्छणा ६ य पडिपुच्छा ७, छंदणा ८ य निमंतणा ९ ॥१॥ उवसंपया १० य काले सामायारी भवे दसहा ।
सविहे पायच्छित्ते पण्णत्ते । तं जहा - आलोयणारिहे १ पडिक्कमणारिहे २ तदुभयारिहे ३ विवेगारिहे ४ विउस्सग्गारिहे ५ तवारिहे ६ छेदारिहे ७ मूलारिहे ८ अणवट्टप्पारिहे९ पारंचियारिहे१० 'त्ति । वृत्तिर्यथा - 'जाइसंपण्णे' इत्यादि नन्वेतावान् गुणसमुदाय आलोचकस्य कस्मादन्विष्यते ? इत्युच्यते -जातिसंपन्नःप्रायो ऽकृत्यं न
१. भग. / २५ -७-९५९ । २. भग. / २५-७-९६० । ३. भग. / २५ -७-९६१ । ४. भग. / २५ -७-९६१ ।
D:\ratan.pm5\5th proof