________________
८८]
[श्रीविचाररत्नाकरः आइच्चे"वृत्तिर्यथा-'से केणद्वेण'मित्यादि । 'मियंके'त्ति मृगचिह्नत्वान्मृगाङ्के विमानेऽधिकरणभूते 'सोमे'त्ति सौम्यो-औद्राकारो नरीगो वा 'कंते'त्ति कान्तियोगात्, 'सुभए'त्ति सुभगः-सौभाग्ययुक्तत्वाद्वल्लभो जनस्य 'पियदंसणे'त्ति प्रियकारिदर्शनः, कस्मादेवमत आह–'सुरूवे से तेणटेण'मित्यादि सुरूपोऽयं तेन कारणेनोच्यते-'ससी'त्ति सह श्रिया वर्त्तते इति सश्रीः तदीयदेवादीनां स्वस्य च कान्त्यादियुक्त त्वादिति, प्राकृतभाषापेक्षया च ससीति सिद्धम् । अथादित्यशब्दस्यान्वर्थाभिधानायाह-'से के णटेण'मित्यादि 'साइय'त्ति सूर आदिः प्रथमो येषां ते सादिकाः के ? इत्याह'समयाइ व'ति समया अहोरात्रादिकालभेदानां निविभागा अंशाः । तथा हिसूर्योदयमवधीकृत्याहोरात्रारम्भकः समयो गण्यते । आवलिका मुहूर्तादयश्चेति । 'से तेणटेण'मित्यादि अथ तेनार्थेनसूर-आदित्यइत्युच्यते । आदौ अहोरात्रसमयादीनां भव आदित्यः, इति व्युत्पत्तेर्त्यप्रत्ययश्चेहार्षत्वात् ।इति भगवतीद्वादशशतकषष्ठद्देशके ८०६ प्रतौ ३९५ पत्रे ॥१२॥
ये केचन स्वकल्पितमतस्थापनाय नवीनयुक्तिजालं कल्पयन्ति, तेऽर्हदाद्याशातनाकारिणो भवन्तीत्यभिप्रायो लिख्यते
__१ मडैयादि समणे भगवं महावीरे महुयं समणोवासगं एवं वदासी-सुट्टणं मढुया ! तुमं ते अन्न्पत्थिए एवं वदासी साहू णं मढुया ! तुमं ते अन्रथिए एवं वदासी जे णं महुया ! अष्टुं वा हेउं वा पसिणं वा वागरणं वा अण्णायं अदिटुं असुयं अमतं अविण्णायं बहुजणस्स मज्झे आघवेइ पण्णवेइ जाव उवदंसेइ । से णं अरिहंताणं आसायणाए वट्टइ । अरिहंतपन्नत्तस्स धम्मस्स आसायणाए वट्टति । केवलीणं आसायणाए वति । केवलिपण्णत्तस्स धम्मस्स आसायणाए वति । तं सुट्ठ णं तुमं महुया ! ते अन्यथए एवं वदासी'इति । वृत्तिर्यथा-'सुट्ठ णं मढुया तुम' ति सुष्ठु त्वं हेमदुका! येन त्वयाऽस्तिकाया न जानता न जानीम इत्युक्तम् । अन्यथाऽजानन्नपि यदि जानीम इत्यभणिष्यस्तदाऽर्हदादीनामाशातनाकारकोऽभविष्यस्त्वम्। इति भगवत्यष्टादशशतकसप्तमोद्देशके ८०६ प्रतौ ४९५ पत्रे ॥१३॥
देवैर्निक्षिप्तं तृणाद्यपि प्रहरणीभवति, न चेदं लौकिकमेव । शास्त्रेऽप्यस्योक्तत्वात्। तथाहि
२"देवे णं भंते ! महिड्डिए जाव महेसक्खे रूवसहस्सं विउव्वित्ता पभू
१. भग./श.१८/उ.७/७४४सू. । २. भग./श.१८/उ.७/७४५सू. ।
D:\ratan.pm5\5th proof