________________
श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः]
[८७ स्वाभाविकविमानगतिग्रहणयोक्तमिति । 'चंदलेस्सं पुरच्छिमेणं आवरेत्ता णं'ति स्वविमानेन चन्द्रविमानावरणे चन्द्रदीप्लोवृतत्वाच्चन्द्रलेश्यां पुरस्तादावृत्य ‘पच्चच्छिमेणं वीईवयइ' त्ति चन्द्रापेक्षयाऽपरेण यातीत्यर्थः । पुरच्छिमेणं चंदे उवदंसेइ पच्चच्छिमेणं राहु'त्ति राह्यपेक्षया पूर्वस्यां दिशि चन्द्र आत्मानमुपदर्शयति, चन्द्रापेक्षया च पश्चिमायां राहुरात्मानमुपदर्शयतीत्यर्थः । एवंविधस्वभावतायां चराहोश्चन्द्रस्य यद्भवति तदाह-'जया णं' इत्यादि 'आवरेमाणे' इत्यत्र द्विर्वचनं तिष्ठतीति क्रियाविशेषणत्वात् । 'चंदेणं राहुस्स कुच्छी भिन्ना'त्तिराहोरंशस्य मध्येन चन्द्रो गतः इति वाच्ये चन्द्रेण राहोः कुक्षिभिन्न इति व्यपदिशन्तीति । 'पच्चेसक्कइ'त्ति प्रत्यवसर्पति व्यावर्त्तते । 'वंते'त्ति वान्तः-परित्यक्तः । 'सपक्खि सपडिदिसिं'ति सपक्षं-समानदिक् यथा भवति सप्रतिदिक्-समानविदिक् च यथा भवतीत्येवं चन्द्रलेश्यामावृत्यावष्टभ्य तिष्ठतीत्येवं योगः । अत आवरणमात्रमेवेदं वैस्रसिकं चन्द्रस्य राहुणा ग्रसनं, न तु कार्मणम् ।इति श्रीभगवतीद्वादशशतकषष्ठोद्देशके ८० प्रतौ ३९५।३९६ पत्रे ॥११॥
__ केचिद्वदन्ति स्वल्पपरिमाणभूगोलंपरित:अरघट्टघटीन्यायेन भ्राम्यन्तौ सूर्याचन्द्रमसौ महत्परिमाणौ यथाक्रमं चारं चरतः, ततश्च सूर्यकान्तयः स्फटिकमये चन्द्रे प्रतिबिम्बिता भवन्ति, ता एव च ज्योत्स्नाः, तथा च प्रतिपदि द्वितीयायां क्रमेण सन्मुखवृद्ध्याधिकमधिकं चन्द्रांशेषु सूर्यकान्तिप्रसारः, एवं च पौर्णमास्यां चारविशेषक्रमेणाधः सूर्य उपरिच चन्द्र एवं तिष्ठतः तेन च सकलोऽपि चन्द्रः सूर्यकान्तिव्याप्तो भवति एवं स्थितयोश्च तयोर्यावति प्रदेशे भूगोलस्तावति चन्द्रमध्यभागे सूर्यकान्तेरप्रसारोऽप्राप्तसूर्यकान्तित्वाच्च सश्यामतयोपलभ्यते, स एव च भूगोलच्छायाच्छादितचन्द्रमध्यभाग एव कलङ्कइति व्यपदिश्यते इति मिथ्यादृग्गणकसिद्धान्ते अनुचितं चैतत, चन्द्रे कालिमानमालोक्यैतावतो व्यतिकरस्य कल्पितत्वात् । सा कालिमा च चन्द्रविमानस्य मृगाङ्कत्वाङ्गीकारेण विना कल्पनामुपपद्यते। तथैव सिद्धान्तः
___१से केणद्वेणं भंते ! एवं वुच्चइ चंदे ससी ? गोयमा ! चंदस्स णं जोइसिंदस्स जोइसरन्नो मियंके विमाणे कंता देवा कंताओ देवीओ कंताई आसणसयणखंभभंडमत्तोवगरणाई अप्पणा वि य णं चंदे जोतिसिंदे जोतिसाया सोमे कंते सुभए पियदंसणे सुरूवे से तेणेटेणं जाव ससी । से केणटेणं भंते ! एवं वुच्चइ सूरे आइच्चे सूरे ? गोयमा ! सूादियाणं समयाइ वा आवलियाइ जाव
१. भग./श.१२/उ.६/५४७-५४८ सू. ।
D:\ratan.pm5\5th proof