________________
[७३
श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः] पाखण्डिविशेषाणां नाग्न्यधारिणां,गोशालकशष्याणामित्यन्ये, आजीवन्ति वा ये अस्तित्वेन अविवेकिलोकतो लब्धिपूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकाः अतस्तेषां 'आभिओगाणं'ति अभियोजनं-विद्यामन्त्रादिभिः परेषां वशीकरणादि अभियोगः, स च द्विधा, यदाह
"दुविहो खलु अभिओगो, दव्वे भावे य होइ नायव्वो ।
दव्वंमि होइ जोगा, विज्जा मंता य भावंमि" ॥२॥[ओनि./९३१]त्ति । सोऽस्ति येषां, तेन वा चरन्ति ये ते अभियोगिकाः आभियोगिका वा ते च व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः । यदाह
"कठ्यभूईकम्मे, पसिणापसिणे निमित्तमाजीवी ।
इड्डिरससायगुरुओ, अभिओगं भावणं कुणइ" ॥१॥[बृ.भा./१३०८ ]त्ति । कौतुकं-सौभाग्याद्यर्थं स्नपनकं, भूतिकर्म-ज्वरितादिभूतिदानम्, प्रश्राप्रश्न-स्वप्नाविद्यादि, 'सलिंगीणं'ति रजोहरणादिसाधुलिङ्गवतां, किंविधानाम् ? इत्याह-'दंसणवावन्नगाणं ति दर्शनं-सम्यक्त्वं व्यापन्नं-भ्रष्टं येषां ते तथा तेषां निह्नवानामित्यर्थः। 'एएसि णं देवलोएसु उववज्जमाणाणं'ति अनेन देवत्वादन्यत्रापि केचिदुत्पद्यन्ते इति प्रतिपादितम्। 'बिाहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे' त्ति इह कश्चिदाह-विाधितसंयमानामत्कर्षेणसौधर्मकल्पे इति यदक्तं तत्कथं घटते द्रौपद्याः सुकुमालिकावे बिाधितसंयमाया अपिई शाने उत्पादश्रवणात्? इत्यत्रोच्यते-तस्याः संयमविराधनोत्तरगुणविषया बकुशत्वमात्रकारिणी न मूलगुणबिाधनेति सौधोत्पादश्च विशिष्टतरसंयमबिधिनायां स्यात् । यदि पुनर्वािधनामात्रमपि सौधर्मोत्पत्तिकारकं स्यात्तदा बकुशादीनामुत्तरगुणप्रतिसेवावतां कभच्युतदिषूत्पत्तिः स्यात्। कथञ्चिट्ठिाधकत्वात्तेषामिति । 'असण्णीणं जहण्णेणंभवणवासी उक्को से णं वाणमंतसु'त्ति इह यद्यपि 'चमरबलिसारमहियं ''[ ]इत्यादिवचनादसुरादयो महद्धिका "पलिओवममुक्कोसं वंतरियाणं''[ ]ति वचनात्व्यन्तराअल्पद्धिकाः तथाप्यत एव वचनादवसीयते सन्तिव्यन्तस्यः सकाशादल्पर्द्धयो भवनपतयः के चन ।इति भगवतीप्रथमशतकद्वितीयोद्देशके ८०६ प्रतौ ४६ । ४७ पत्रे ।।
के चिच्च परेषां भिक्षुकादीनां दानं निषेधयन्ति, अपरे च चतुर्दशी विहाय पूर्णिमामावास्ययोरेव पौषधं प्ररुपयन्ति, ते उभयेऽपि अनेन श्रावकवर्णनसूत्रेण निरस्ता द्रष्टव्याः । तथा हि
D:\ratan.pm5\5th proof