________________
७२]
[श्रीविचाररत्नाकरः ते ह्यखिलकेवलक्रियाप्रभावत एवोपरिमग्रैवेयकेषूत्पद्यन्ते, इति । असंयताश्च ते सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात् । ननु ते कथमभव्या भव्या वा श्रमणगुणधारिणो भवन्ति? इत्यत्रोच्यते, तेषां हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्तिप्रभृत्यनेकभूपतिप्रवरपूजासत्कारसन्मानदानान्साधून् समवलोक्य तदर्थं प्रव्रज्याक्रियाकलापानुष्ठानं प्रति श्रद्धा जायते, ततश्च यथोक्तक्रियाकारिण इति । 'अविराहियसंजमाणं'ति प्रव्रज्याकालादारभ्याभग्नचारित्रपरिणामानां संज्वलनकषायसामर्थ्यात् प्रमत्तगुणस्थानकसामर्थ्याद्वा स्वल्पमायादिदोषसंभवेऽप्यनाचरितचरणोपघातानामित्यर्थः । 'विराहियसंजमाणं'ति उक्तविपरीतानां, 'अविराहियसंजमासंजमाणं'ति प्रतिपत्तिकालादारभ्यखण्डितदेशविरतिपरिणामानां श्रावकाणां 'विाहियसंजसमासंजमाणं ति उक्तव्यतिरेकिणां 'असण्णीणं'ति मनोलब्धिरहितानामकामनिर्जरावतां, तथा 'तावसाणं'ति पतितपत्राद्युपभोगवतां बालतपस्विनां, तथा 'कंदप्पियाणं'ति कन्दर्पः-परिहासः स येषामस्ति तेन वा ये चरन्ति ते कन्दर्पिकाः कान्दर्पिका वा व्यवहारतश्चरणवन्त एव कन्दर्पकौकु च्यादिकारकाः। तथाहि
"कहकहकहस्स हसणं, कंदप्पो अनिहुआ यउल्लावा । कंदप्पकहाकहणं, कंदप्पुवएस संसा य ॥१॥[बृ.भा./१२९६] भूमनयणवयणदसणच्छदेहिं करपायकन्नमाईहिं। तं तं करेइ जह जह, हसइ परो अत्तणा अहसं ॥२॥[5.भा./१२९७] वायाकुक्कुइओ पुण, तं जंपइ जेण हस्सए अन्नो। नाणाविहजीवरुए, कुव्वइ मुहतूरए चेव" ॥३॥[बृ.भा./१२९८ ]इत्यादि "जो संजओ वि एयासु, अप्पसत्थासु भावणं कुणइ।।
तो तव्विहेसु गच्छइ, सुरेसु भइओ चरणहीणो" ॥४[पव/१६२९ ]त्ति । अतस्तेषां कन्दर्पिकाणां 'चरगपरिव्वायगाणं'तिचरकपरिव्राजका धाटीभिक्षोपजीविनस्त्रिदण्डिनः अथवाचरका: कच्छो टकादयः, परिव्राजकातु कपिला नि सू नवः अतस्तेषां 'किव्विसियाणं'ति किल्बिषं-पापं तदस्ति येषां ते किल्बिषिकाः, ते च व्यवहारतश्चरणवन्तोऽपि ज्ञानाद्यवर्णवादिनः, यथोक्तम्
"णाणस्स केवलीणं, धम्मायरियस्स सव्वसाहूणं ।
माई अवण्णवाई, किव्विसियं भावणं कुणइ" ॥१॥ बृ.भा./१३०२] अतस्तेषां 'तेरिच्छिआणं' ति तिरश्चामश्वगवादीनां देशविरतिभाजां, 'आजीवियाणं ति
D:\ratan.pm5\5th proof