________________
[ श्रीविचाररत्नाकरः
उपासकाः-श्रावकास्तद्गतक्रियाकलापप्रतिबद्धा दशा: दशाध्ययनमेलक्षिता उपाशकदशा: ता एवाह-'उपासगदसासु णं' उपासकानां नगराणि उद्यानानि चैत्यानि, वनखण्डा, राजानः, अम्बापितरौ, समवसरणानि, धर्माचार्या, धर्मकथा, ऐहलौकिकपारलौकिकाऋद्धिविशेषाः, उपासकानां च शीलव्रतविरमणगुणप्रत्याख्यानपोषधोपवासप्रतिपादनताः, तत्र शीलव्रतानि - अणुव्रतानि विरमणानि - रागादिविरतय: गुणागुणव्रतानि प्रत्याख्यानानि - नमस्कारसहितादीनि पौषधो- अष्टम्यादिपर्वदिनं तत्रोपवसनंआहारशरीरसत्करादित्यागः पौषधोपवासः ततो द्वन्द्वे सत्येतेषां प्रतिपादनता:-प्रतिपत्तय इति विग्रहः, श्रुतपरिग्रहास्तपउपधानानि च प्रतीतानि, 'पडिमाओ 'त्ति एकादश उपासकप्रतिमाः कायोत्सर्गा वा, उपसर्गा-देवादिकृतोपद्रवाः, संलेखना:- भक्तपानप्रत्याख्यानानि पादपोपगमनानि, देवलोकगमनानि, सुकुलप्रत्यायातिः, पुनर्बोधिलाभोऽन्तक्रिया चाख्यायन्ते पूर्वोक्तमेवेतो विशेषत आह- 'उवासगे 'त्यादि, तत्र ऋद्धिविशेषा-अनेककोटीसङ ख्याद्रव्यादिसंपद्विशेषाः तथा परिषदः - परिवारविशेषाः यथा - मातापितृपुत्रादिकाऽभ्यन्तरपरिषत् दासीदासमित्रादिका बाह्यपरिषदिति, विस्तरधर्म श्रवणानि महावीसंनिधौ, ततो बोधिलाभोऽभिगमः, सम्यक्त्वस्य विशुद्धता, स्थिरत्वं सम्यक्त्वशुद्धेरेव, मूलगुणोत्तर-गुणा अणुव्रतादयः, अतिचारास्तेषामेव वधबन्धादिना खण्डितानि, स्थितिविशेषाश्च उपासकपर्यायस्य कालमानभेदाः, बहुविशेषाः, प्रतिमा:- प्रभूतभेदाः सम्यग्दर्शनादिप्रतिमा, अभिग्रहग्रहणानि तेषामेव पालनानि, उपसर्गाधिसहनानि, निरुपसर्गं-चोपसर्गाभावश्चेत्यर्थः, तपांसि च विचित्राणि, शीलव्रतादयोऽनन्तरोक्तरूपाः, अपश्चिमाः-पश्चात्कालभाविन्यः अकारस्त्वमङ्गलपरिहारार्थं मरणरूपे अन्ते भवा मारणान्तिकाः आत्मनः शरीरस्य जीवस्य च संलेखनाः- तपसारागादिजयेन च कृशीकरणानि आत्मसंलेखनाः ततः पदत्रयस्य कर्मधारयः तासां, 'झोसणं'ति जोषणाःसेवनाः करणानीत्यर्थः ताभिरपश्चिममारणान्तिकात्मसंलेखनाजोषणाभित्मानं यथा भावयित्वा बहूनि भक्तानि अनशनतयानिर्भोजनतया छेदयित्वा व्यवच्छेद्य उपपन्ना मृत्वेति गम्यते केषु ? कल्पवरेषु यानि विमानान्युत्तमानि तेषु । यथाऽनुभवन्ति सुरवरविमानानि वरपुण्डरीकाणीव वरपुण्डरीकाणि यानि तेषु । कानि ? सौरव्यान्यनुपमानि क्रमेण भुक्त्वोत्तमानि, तत आयुष्कक्षयेण च्युताः सन्तो यथा जिनमते बोधि लब्ध्वा इति शेषः, लब्ध्वा च संयमोत्तमं - प्रधानसंयमं तमोरजओघविप्रमुक्ताअज्ञानकर्मप्रवाहविप्रमुक्ता उपयान्ति यथा अयं - अपुनरावृत्तिकं सर्वदुःखमोक्षं - कर्मक्षयमित्यर्थः ।
६६]
D:\ratan.pm5\5th proof