________________
श्रीविचाररत्नाकरे प्राच्यतटे चतुर्थस्तरङ्गः]
[६५ त्रयस्त्रिंशः ३३। 'उप्पाइया वाहि' त्ति उत्पाता-अनिष्टसूचका रुधिर-वृष्ट्यादयस्तद्धेतुका येऽनर्थास्ते औत्पातिकाः तथा व्याधयो-ज्वराद्याः तदुपशमो-अभावो भवतीति चतुस्त्रिंशत्तमः ३४। अन्यच्च ‘पच्चाहरओ' इति आरभ्य येऽभिहितास्ते प्रभामण्डलं च कर्मक्षयकृताः, शेषाः भवप्रत्ययेभ्योऽन्ये देवकृता इति । एते च यदन्यथाऽपि दृश्यन्ते तन्मतान्तरमवगन्तव्यम् ।इति समवायाने चतुस्त्रिंशे स्थानके ८५ प्रतौ ३३ पत्रे ॥१॥
के चिच्च श्रावकाणामुपधानोद्वहनं न मन्यते, तच्च सिद्धान्तापरिज्ञानम् । यतः "उवासगदसासुणं उवासगाणं तवोवहाणाई''[ इत्यादिनात्र श्रावकोपधानोद्वहनस्योक्त त्वात्। न च वाच्यं अत्रच वक्ष्यते इत्युक्तं तत्र तु न दृश्यते इत्यादि, कालेन ग्रन्थस्य व्यवच्छिन्नत्वात्, अन्यथा स्थानाद्विगुणतयाऽस्यभगवत्यदिभ्योऽपि महत्तरताया पूज्यमानत्वात्, अन्येषामप्यत्र वाच्यतयोक्तानां तत्र नोक्तानां जल्पानाम(न)ङ्गीकार्यतापत्तेश्चेति दिक् । उपधानाक्षरावबोधाय च साद्यन्तमिदं सूत्रं लिख्यते
१'से कितं उवासगदसाओ? उवासगदसासणं उवासगाणं नगराडं उज्जाणाई, चेइयाई, वणखंडा,रायाणो अम्मापियरा, समोसरणाइं, धम्मायरिया, धम्मकहाओ, इहलोइयपरलोइयइड्डिविसेसा, उवासगाणं च सीलव्वयवेरमणगुणपच्चक्खाणपोसहोववासपडिवज्जणयाओ सुअपरिग्गहा, तवोवहाणाइं, पडिमाओ, उवसग्गा, संलेहणाओ, भत्तपच्चक्खाणाइं, पाओवगमणाई, देवलोगगमणाई, सुकुलपच्चायाया पुणो बोहिलाभो अंतकिरियाओ आघविज्जंति । उवासगदसासु णं उवासगाणं रिद्धिविसेसा परिसा वित्थरधम्मसवणाणि बोहिलाभअभिगम सममत्तविसुद्धया थिरत्तं मूलगुणुत्तरगुणअइआरा ठिइविसेसा बहुविसेसा पडिमाभिग्गहग्गहणपालणाओ उवसग्गाहियासणा णिरुवसग्गया य तवो य विचित्ता सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासा अपच्छिममारणंतिया य संलेहणाझोसणाहिं अप्पाणं जह य भावइत्ता बहूणि भत्ताणि अणसणाए छेयइत्ता उववन्ना कप्पवरविमाणत्तमेस जह अणभवंति सरवरविमाणवरपंडरिएस सक्खाई अणोवमाइं कमेण उत्तमाइं, तओ य आउक्खएणं चुया समाणा जह जिणमयंमि बोहिं लभ्रूण य संजमुत्तमं तमरयोघविप्पमुक्का उवेंति जह अक्खयं सव्वदुक्खमोक्खं, एते अन्ने य एवमादि त्ति । वृत्तिर्यथा-'से किं तमि'त्यादि अथ कास्ता उपासकदशाः ?
१. सम. २२२ सू.।
D:\ratan.pm5\5th proof