________________
[श्रीविचाररत्नाकरः तद्भावस्तत्ता तस्या-विषार्थताया विषत्वस्य तस्यां वा 'नो चेव'त्ति नैवेत्यर्थः । संपत्त्या एवंविधबोन्दिसंप्राप्तिद्वारेण अकार्युर्वृश्चिका इति गम्यते । इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थम्, एवं कुर्वन्ति करिष्यन्ति । त्रिकालनिर्देशश्चामीषां त्रैकालिकत्वज्ञापनार्थः । समयक्षेत्रं-मनुष्यक्षेत्रम् ।इति स्थानाङ्गचतुर्थस्थानकचतुर्थोद्देशके ४४० प्रतौ २२५ पत्रे ॥११॥
साधूनामाचार्योपाध्यायैः सह कलहस्थानानि लिख्यन्ते
१'आयरियोवज्झायस्स णं गणंसि पंच वुग्गहठाणा पण्णत्ता, तंजहाआयरियोवज्झाए णं गणंसि आणं वा धारणं वा नो सम्म फ जित्ता भवइ १। आयरियोवज्झाएणं गणंसि अहरायणियाए किडकम्मं वेणइयं नो सम्म म जित्ता भवइ २। आयरियोवज्झाए णं गणंसि जे सुअपज्जवजाते धारेइ, ते काले काले नो सम्मं अणुप्पवाइत्ता भवइ ३। आयरियोवज्झाए णं गणंसि गिलाणसेहवेयावच्चं नो सम्मं अब्भुट्टित्ता भवइ ४। आयरियोवज्झाए णं गणंसि अणापुच्छियचारिया भवइ इति ५।"वृत्तिर्यथा-आचार्योपाध्यायस्येति समाहारद्वन्द्वः, कर्मधारयो वा, ततश्चाचार्यस्योपाध्यायस्य चाचार्योपाध्यायस्य वा 'गणंसि'त्ति गणे विग्रहस्थानानि-कलहाश्रया:। आचार्योपाध्यायो द्वयं वा गणे-गणविषये आज्ञा हे साधो ! भवते दं विधेयमित्येवंरूपामादिष्टाम् । धारणां-न विधेयमित्येवंरूपां नो-नैव सम्यगौचित्येन प्रयोक्ता भवतीति साधवः परस्परं कलहायन्ते, असम्यक नियोगाद् दुनियन्तृत्वाच्च । अथवा अनौचित्येन नियोक्तारमाचार्यादिकमेव कलहायन्ते, इत्येवं सर्वत्रेति । अथवा गूढार्थपदैरगीतार्थस्य पुरतो देशान्तरस्थगीतार्थनिवेदनाय गीतार्थो यदतिचारनिवेदनं को ति साऽऽज्ञा, असक दालोचनादानेन यत्प्रायश्चित्तविशेषावधारणं सा धारणा, तयोर्न सम्यग्प्रयोक्तेति कलहभागिति प्रथमम् । तथा स एव 'अहारायणियाए' इति रत्नानि द्विधा, द्रव्यतो भावतश्च, तत्र द्रव्यतः कर्के तनादीनि भावतो ज्ञानादीनि । तत्र रत्नैर्ज्ञानादिभिर्व्यवहरतीति रात्निक:-बृहत्पर्यायो यो रात्निको यथारात्निकं तद्भावस्तत्ता तया यथारात्निकतया-यथाज्येष्ठं कृतिकर्म-वन्दनकं विनय एव वैनयिकं तच्च न सम्यक् प्रयोक्ता अन्तर्भूतकारितार्थत्वाद्वा प्रयोजयिता भवतीति द्वितीयम् । तथा स एव यानि श्रुतस्य पर्यवजातानि-सूत्रार्थप्रकरान् धारयति-धारणाविषयीकरोति तानि काले काले
१. स्था. ५/१-४३३ सू. ।
D:\ratan.pm5\5th proof