________________
श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः]
[४१ १ 'दो घयपला महु पलं, दहियस्सऽद्धाढयं मिरिय वीसा ।
दस खंडगुलपलाई, एस रसालू निवइजोग्गो" ॥१॥[स्था./३/१-१४३७.] पानं-सुरादि, पानीयं-जलम्, पानकं-द्राक्षापानादि, शाकस्तक्रसिद्ध इति ।
यावान् जीवो-यावज्जीवं यावत्प्राणधारम् पृष्ठौ-स्कन्धे अवतंस इवावतंस:शेखरस्तस्य करणमवतंसिका पृष्ठ्यवतंसिका तया परिवहेत, पृष्ठ्यारोपितमित्यर्थः । तेनापि परिवाहकेन परिवहनेन वा तस्यां वा पितुर्दुष्प्रतिकारमशक्यप्रतीकार इत्यर्थः, अनुभूतोपकारतया तस्य प्रत्युपकारित्वात् । आह च
"कयउवयारो जो होइ सज्जणो होइ को गुणो तस्स ?।
उवयारबाहिरा जे, हवंति ते सुंदर सुअण" ॥१॥[ ]त्ति । 'अहे णं से' त्ति अथ चेत्, णमिति वाक्यालङ्कारे स पुरुषस्तमम्बापितरं धर्मे स्थापयितास्थापनशीलो भवति अनुष्ठानतः स्थापयतीत्यर्थः । किं कृत्वा? इत्याह-'आघवइत्ता' धर्ममाख्याय प्रज्ञाप्य-बोधयित्वा प्ररूप्य भेदत इति, अथवाऽऽख्याय-सामान्यतो यथा कार्यो धर्मः, प्रज्ञाप्य-विशेषतो यथाऽसावहिंसादिलक्षणः, प्ररूप्य-भेदतो यथा शीलाङ्गसहस्ररूप इति, शीलार्थतन्नन्तानि वैतानीति। तेणामेव'त्ति ततस्तेनैव धर्मस्थापनेनैव न परिवहनेन, अथवा तेनैव धर्मस्थापकपरुषेण न परिवाहिना तस्य प्रत्युपकरणीयस्याऽम्बापितः इति स्थानाङ्गतृतीयस्थानके प्रथमोद्देशके ४४० प्रतौ १०७ पत्रे ॥४॥
उपस्थापनाया अक्षराणि लिख्यन्ते
२"तओ सेहभूमीओ पण्णत्ता । तंजहा उक्कोसा मज्झिमा जहन्ना उक्कोसा छम्मासा, मज्झिमा चउम्मासा, जहन्ना सत्तराई दिया इति'। वृत्तिर्यथा-व्रतारोपणे कालविशेषानाह–'तओ सेह'त्यादि सुगमम् । किं तु 'सेह'त्ति 'षिधू संराद्धौ' इति वचनात्, सिध्यते-निष्पाद्यते यः स सेधः शिक्षां वाऽधीत इति शैक्षः तस्य भूमयोमहाव्रतानामारोपणकाललक्षणाः अवस्थाः पदव्य इति सेधभमयः शैक्षभमयो वेति, अयमभिप्रायः-उत्कृष्टतः षड्भिर्मासैरुत्थाप्यते न तानतिक्रम्यते । मध्यमतश्च चतुर्भिर्मासैरुत्थाप्यते । जघन्यतः सप्तभिरेवरात्रिन्दिवैर्गृहीतशिक्षत्वादिति । उक्तं च
३ 'सेहस्स तिन्नि भूमी, जहन्न तह मज्झिमा य उक्कोसा।
राइंदिव सत्त चउमासिया य छम्मासिया चेव" ॥१॥[व्य.भा./४६०४]त्ति । आसु चायं व्यवह्मोक्तो विभाग:
१. प्र.सा./१४१६-गा. । २. स्था. ३/२-१६२ सू. । ३. प.व./६१६ गा. ।
D:\ratan.pm5\5th proof