SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अश्लीलांशवर्जितः (३८) पृथ्वी छन्दः द्वितीयमयि धीमतां प्रिय ! षडष्टमं द्वादशं चतुर्दशमथालघु प्रकृतिधीर ! विद्यार्थिनाम् । सपञ्चदशमन्तिमं तदनु यत्र नूनं यति गिरीन्द्रफणिभृत्कुलैर्भवति तत्र ! पृथ्वी हि सा ॥४१ ।। अन्वयः-अयि धीमतां प्रिय ! यत्र द्वितीयं षडष्टमं द्वादशं चतुर्दशम अथ सपञ्चदशम् अन्तिमम् अलघु ( भवेत् )। हे विद्यार्थिनां प्रकृतिधीर ! तदनु गिरीन्द्र फणिभृत्कुलैः यतिः भवति, तत्र नूनं ! सा पृथ्वी (वृत्तिः) हि निश्चयेन बोध्येति शेषः । व्याख्या-अयि हे धीमतां बुद्धिमतां प्रिय ! प्रेमिन् ! यत्र वृत्तौ षडष्टमं षष्ठम् अष्टमं द्वादशम् अथ चतुर्दशं सपञ्चदशं पञ्चदशेन सहितम् अन्तिमं सप्तदशम् अक्षरं अलघु गुरु दीर्घ (भवेत् ), हे विद्यार्थिनां छात्राणां प्रकृतिधीर ! स्वभावधैर्यधर ! तदनु तत्पश्चात् गिरीन्द्रफणिभृत्कुलैः अष्टभिः नवभिश्वाक्षरैर्यतिर्विश्रामो भवति जायते तत्र नूनं निश्चयेन सा पृथ्वी एतन्नाम्नी वृत्तिः हि निश्चयेन बोध्येति शेषः । उदाहरणं यथा इतः स्वपिति केशवः कुलमितस्तदीयद्विषामितश्च शरणार्थिनां शिखरिणां गणाः शेरते । इतोऽपि वडवानलः सह समस्तसंवर्तके रहो विततमूर्जितं भरसहज सिन्धोर्वपुः ॥ भाषा-जिसके प्रतिचरण में द्वितीय, षष्ठ, अष्टम, द्वादश, चतुर्दश, पञ्चदश और सप्तदश अक्षर दीर्घ हों और आठ तथा नव अक्षर पर विश्राम हो वह पृथ्वी छन्द है ॥४१॥ (३९) शार्दूलविक्रीडितं छन्दः आद्याश्चेद् गुरवख्यो यदि ततः षष्ठस्तथा चाष्टमः स्यादेकादशतस्त्रयस्तदनु नन्वष्टादशाद्यान्तिमाः। मार्तण्डैर्मुनिभिश्च यत्र विरतिश्छन्दोऽनुसन्धानकृत तवृत्तं प्रवदन्ति काव्यरसिकाःशार्दूलविक्रीडितम् ॥४२॥ अन्वयः-हे छन्दोऽनुसंधानकृत् ! यदि आद्याः त्रयः गुरवः ( स्युः ) ततः षष्ठः तथा अष्टमश्च गुरुः ( स्यात् ), ननु एकादशतः त्रयः (गुरवः), तदनु अष्टा.
SR No.009626
Book TitleShrutbodha
Original Sutra AuthorN/A
AuthorKanaklal Thakur, Bramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year1968
Total Pages34
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy