________________
२२
श्रुतबोधः
में खलु' नरक हारक्रास्त घनस्तनमण्डलं.
पायचा छाधाच रणन्मणिमेखलम् ॥ भाषा-जिसमें प्रतिपाद के आदि से पांच अक्षर हस्व हों और एकादश, त्रयोदश, चतुर्दश, षोडश-संख्यक अक्षर हस्व हो और छः, चार तथा सात अक्षरों पर विराम हो, वह हरिणी छन्द है ॥ ३९ ॥
(३७) शिखरिणी छन्दः यदा पूर्वो हस्वो भवति मतिमन् ! षष्ठकपरा
स्ततो वर्णाः पञ्च प्रकृतिसरल ! स्युस्तु लघवः । त्रयोऽन्ये चोपान्त्याः सुकविजनतासौख्यकरणी
रस रुद्रेयस्यां भवति विरतिः सा शिखरिणी ।। ४०॥ अन्वयः-हे मतिमन् ! यदा पूर्वः ( वर्णः ) हस्वः भवति, हे प्रकृतिसरल ! ततः षष्ठकपराः पञ्च वर्णाः तु लघवः स्युः अन्ये च उपान्त्याः त्रयः (वर्णाः लघवः स्युः ), यस्यां रसैः रुदैः विरतिः भवति सा सुकविजनताप्तौल्यकरणी शिखरिणी (बोध्येति शेषः),
व्याख्या-हे मतिमन् ! बुद्धिमन् ! यदा पूर्वः प्रथमः (वर्णः) हस्त्रो लघुः भवति वर्त्तते, हे प्रकृतिसरल ! हे स्वभावकोमल ! ततस्तदनन्तरं षष्ठकपराः षष्ठतः पञ्चसंख्यका वर्णा अक्षराणि तु लघवः हस्वाः स्युः भवेयुः अन्ये च उपान्त्या अन्त्यसमीपवर्तिनः त्रयः त्रिसंख्यका वर्णाः चतुर्दश-पञ्चदश-षोडशाः लघवः स्युः, यस्यां वृत्तौ रसैः षडभिः रुदैः एकादशभिश्चाधरैः विरतिर्विश्रामो भवति वर्तते सा सुकविजनतासौख्यकरणी कवीन्द्रमण्डलीविनोदजननी शिखरिणी नाम वृत्तिर्योध्येति शेषः । उदाहरणं यथामुदा विद्याभ्यासं विदधदभिमानेन रहितो
गुरोः पादाम्भोजं शिरसि निदधत् पुष्पसदृशम् नहि व्ययं कालं निजमपि नयनीशदयया
चिरं जीव छात्र ! स्वमनिशमसंशयमिह सुखी ॥ भाषा-जिसके चारों चरणों में प्रथम, सप्तम, अष्टम, नवम, दशम, एकादश, चतुर्दश, पञ्चदश और षोडश अक्षर हस्व हो और छ-छ तथा ग्यारह-ग्यारह अक्षर पर विश्राम हो, वह शिखरिणी छन्द है ॥ ४० ॥