________________
अश्लीलांश वर्जितः
देवाः सदा पशुपतिरिन्दुशेखरो - गङ्गाधरो हिमगिरिकन्यकापतिः । वाराणसी- पुरपतिर्त्तभीति-हृत् पायापरं विषमशरारिराशु माम् ॥ भाषा - जिस वृत्त के चारों चरणों में प्रथम दो अक्षर और चतुर्थ, नवम, एकादश और त्रयोदश दीर्घ हों और चार चार तथा नव नव अक्षरों पर विश्राम हो, वह प्रभावती नाम वृत्ति कही गई है ॥ ३५ ॥ ( ३३ ) प्रहर्षिणी छन्दः
आद्यं चेत्त्रितयमथाष्टमं नवान्त्यं चोपान्त्यं गुरु विरतौ सदुक्तिमन् ! स्यात् । विश्रामो भवति महेशनेत्र दिग्भिर्विज्ञेया ननु सुमते ! प्रहर्षिणी सा || ३६ ||
अन्वयः - हे सदुतिमन् ! ननु सुमते ! चेत् आद्यं त्रितयम् अथ अष्टमं नवानयम् उपान्त्यं विरतौ च ( एकम् अक्षरं ) गुरु स्यात्, महेशने दिग्भिः विश्रामः भवति ( तदा ) सा प्रहर्षिणी विज्ञेया ।
१९
व्याख्या - हे सदुक्तिमन् ! हे मधुरवचनभाषिन् ! ननु सुमते ! हे सुबुद्धे ! चेत् यदि आद्यं प्रथमं, त्रितयं वर्णत्रिकम् अथ अनन्तरम् अष्टमं नवान्श्यं दशमम्, उपान्त्यं द्वादशं विरतौ विश्रामे च एकमक्षरं त्रयोदशमिति यावत् गुरु दीर्घ स्थात् भवेत् तथा महेशने त्रदिग्भिः महेशनेत्रैः त्रिभिरखरैः दिग्भिर्दशभिर तरं विश्रामो विरतिर्भवति, तदा सा प्रसिद्धा प्रहर्षिणी विज्ञेया बोध्या ।
"
4
उदाहरणं यथा
श्रीनाथे सुरवरपूजितापि कामारेः प्रियतम आर्सलोकबन्धौ । सर्वस्वे विषय वितृष्णमानसानां संसारे मतिरभवत् प्रहर्षिणीह ||
भाषा - जिसमें प्रतिपाद के प्रथम से तीन अक्षर और अष्टम, दशम, द्वादश और त्रयोदश अक्षर दीर्घ हों और तीन तीन तथा दश दश अक्षर पर विश्राम हो उसे प्रहर्षिणी छन्द जानना ॥ ३४ ॥
( ३४ ) वसन्ततिलका छन्दः
आद्यं द्वितीयमपि चेद् गुरु तचतुर्थ
यत्राष्टमं च दशमान्त्यमुपान्त्यमन्त्यम् । अष्टाभिरुज्ज्वलमते ! विरतिश्च षडभि
विज्ञा वसन्ततिलकां किल तां वदन्ति ॥ ३७ ॥