________________
१८
श्रुतबोधः
भाषा-उपेन्द्रवज्रा के सब पादों में यदि ग्यारहवाँ अक्षर लघु हो तो उसको वंशस्थ छन्द कहते हैं ॥ ३३ ॥
(३१) इन्द्रवंशा छन्दः छन्दोविदामुक्तिकृतात्मसङ्गते ! वंशस्थपादा गुरुपूर्ववर्णकाः । विद्याविलासप्रिय ! यत्र नूनं तामिन्द्रवंशां कवयः प्रचक्षते ॥ ३४ ॥
अन्वयः-हे छन्दोविदामुक्तिकृतारमसङ्गते ! हे विद्याविलासप्रिय ! यत्र वंशस्थ रादाः गुरुपूर्ववर्णकाः ( भवन्ति ), कवयः ताम् इन्द्रवंशां नूनं प्रचक्षते ।
व्याख्या-हे छन्दोविदामुक्तिकृतात्मसङ्गते ! ' हे छन्दोऽभिज्ञवचनकृतमनोयोग ! हे विद्याविलासप्रिय ! हे विद्यावैभवप्रेमिन् ! यत्र वृत्तौ वंशस्थपादाः वंशस्थचरणाः गुरुपूर्ववर्णकाः आदिदीर्घवर्णाः भवन्ति, कवयः काव्यज्ञाः तामिन्द्रवंशामिन्द्रवंशानामवृत्तिं नूनं निश्चयं प्रचक्षते कथयन्ति । उदहरणं यथा
दैत्येन्द्रवंशाग्निरुदोर्णदीधितिः पीताम्बरोऽसौ जगतां तमोऽपहः ।
यस्मिन् ममज्जुः शलभा इव स्वयं ते कंसचाणूरमुखा मखद्विषः ।। भाषा–यदि वंशस्थ छन्द के सब पादों में प्रथम अक्षर दीर्घ हो तो उसे कवि लोग इन्द्रवंशा छन्द कहते हैं ॥ ३४ ॥
(३२) प्रभावती छन्दः यस्यां प्रिय ! प्रथमकमक्षरद्वयं तुयें तथा गुरु नवमं दशान्ति कम् । सान्त्यं भवेद्यदि विरतियुगग्रहः सा लक्षिता विपुलमते ! प्रभावती ॥
अन्वयः-हे प्रिय ! विपुलगते ! यस्यां प्रथमकम् अक्षरद्वयम् तथा तुर्य नवमं सान्त्यं दशान्तिकं (च ) गुरु भवेत् यदि युगग्रहः विरतिः (भवेत् ) सा प्रभावती लक्षिता।
व्याख्या हे प्रिय! हे प्रेमास्पद ! हे विपुलमते ! हे विशालबुद्धे ! यस्यां वृत्ती प्रथमकं पूर्वम् अक्षरद्वयं वर्णद्वयं तथा तुयं चतुर्थं नवमं नवमसंख्यकं सान्न्यमन्त्यवर्णसहितं त्रयोदमिति यावत् , दशान्तिकमेकादशं च गुरु दीर्घ भवेत स्यात् यदि चेत युगग्रहैः चतुर्थिः नवभिश्च वर्णैः विरतिर्विरामो भवेत् तदा सा एषा प्रभावती तन्नाम्नी वृत्तिः लक्षिता कथिता विद्वद्भिरिति शेषः ।