________________
अश्लीलशिवर्जितः
.
व्याख्या-हे अहीनमते ! हे विपुलबुद्धे ! यत्र यस्मिन् छन्दसि आधचतुर्थ प्रथमतुरीयम् सप्तमकं सप्तमं दशमं दशमसंख्याकं च तथा अन्त्यम् एकादशम् अक्षरं गुरु दाई स्यात् । हे प्रकटस्मृतिशक्ते ! सजातस्मरणसामर्थ्य ! तत् उक्तलक्षणलक्षितं ननु बलु दोधकवृत्तं तनामक छन्दः कथितम् अभिहितम् पण्डितरिति शेषः । उदाहरणं यथा
देव ! सदो कदम्बतलस्थ ! श्रीधर ! तावक नामपदं मे ।
कण्ठनलेऽसुमिनिर्गमकाले स्वल्पमपि क्षणमेप्यति योगम् ॥ भाषा-जिसके प्रथम, चतुर्थ, सप्तम, दशम और एकादश अक्षर गुरु हों वह दोधक नाम का छन्द कहा गया है ॥ २० ॥
(१८) इन्द्रवज्राछन्दः यत्र त्रिषट्सप्तममक्षरं स्याद्धस्यं तु वृत्ते नवमं च तद्वत् । मत्या विलजीकृतवाक्पते हे ! तामिन्द्रवां ब्रुवते कवीन्द्राः ।। २१ ।।
अन्वयः-हे मत्या विलजोकृतवाक्पते ! यत्र वृत्ते तु विषट्सप्तमं तद्वत् नवम अक्षरं हस्वं स्यात् . कवीन्द्राः ताम् इन्द्रवज्रां अवते ।,
व्याख्या-हे मत्या बुद्धया विलजीकृतवाक्पते ! वोडीकृत वृहस्पते ! यत्र यस्मिन् वृत्ते छन्दसि तु त्रिषट्सप्तमं तृतीय-पष्ट-सप्तमसंख्यकं तद्वत् तथैव नवमं च अक्षरं वर्णः हस्वं लघु स्यात् भवेत् , कवीन्द्राः कविश्रेष्ठाः ताम् उक्तलक्षण. लक्षिताम् इन्द्रवज्रां तसानों वृत्तिं बुवते कथयन्ति । उदाहरणं यथा
गोष्टे गिरि सम्यकरेण धृत्वा रुष्टेन्द्रवज्राहतिमुकवृष्टी।
यो गोकुलं गोपकुलञ्च सुस्थं चक्रे स नो रक्षतु चक्रपाणिः ॥ भाषा-जिसके तृतीय, षष्ट, सप्तम और नवम अक्षर हस्व हों, उसे कवीन्द्रों ने इन्द्रवज्रा छन्द कहा है ॥ २१ ॥
(१९) उपेन्द्रवज्राच्छन्दः यदीन्द्रवज्राचरणेषु पूर्वे भवन्ति वर्णा लघवः कदाचित् । कुशाग्रवत् तीक्ष्णमते ! तदानीमुपेन्द्रवज्रा कथिता कवीन्द्रः ।। २२ ॥
अन्वयः-हे कुशाग्रवत् तीक्ष्णमते ! यदि कदाचित् इन्द्रवज्राचरणेषु पूर्वे वर्णाः लघवः भवन्ति, तदानीं कवीन्द्रैः उपेन्द्रवज्रा कथिता ।