________________
श्रुतबोधः
भवेत् ; प्रवरकवयः श्रेष्ठकाव्यविदः अनारतं सदा तां पर्वोत्तलक्षणलक्षितां मन्दाक्रान्तां तन्नामकं छन्दः साधु सुष्ठु सनिरन्ते कथयन्ति ।
उदाहरणं यथाशान्ताकारं भुजगशयनं पद्मनाभं सुरेशं-विश्वाधारं गगनसदृशं मेघवणं शुभाङ्गम् । लक्ष्मोकान्त कमलनयनं योगिभिर्ध्यानगम्यं-वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥
भाषा-जिसके सब चरणों में प्रथम से चार वर्ण, उसके बाद दशम, एकादश, त्रयोदश, चतुर्दश, षोडश और सप्तदश अक्षर गुरु हों और चार चार छः छः तथा सात सात वर्णों वर विश्राम हो, वह मन्दक्रान्ता नामक छन्द कहा गया है॥१८॥
(१६) हंसीच्छन्दः मन्दाक्रान्ताऽन्त्ययतिरहिता सद्योग्राहिन् ! भवति यदि सा । तद्विद्भिधुवमभिहिता ज्ञेया हंसी शुचितममते ! ॥१६॥
अन्वयः-हे सद्योग्राहिन् ! यदि सा मन्दाक्रान्ता अन्त्ययतिरहिता भवति, ( तदा ) हे शुचितममते ! तद्विद्वद्भिः ध्रवम् अभिहिता हंसी ज्ञेया। _ व्याख्या-हे सद्योग्राहिन् ! झटिस्युपदेशग्रहणकारिन् ! यदि सा पूर्वोक्ता मन्दाक्रान्ता तन्नाम्नी वृत्तिः अन्त्ययतिरहिता अन्तिमसप्ताक्षरविरामशून्या भवति जायते तदा हे शुचितममते ! उज्ज्वलतमबुद्धे ! तद्विद्वद्भिः छन्दोविद्भिः ध्रुवं निश्चयेन अभिहिता कथिता हंसी तन्नाम्नी वृत्तिः ज्ञेया बोध्या । भवतीति शेषः । उदाहरणम्
हिंसाद्वेषौ प्रकृतिसुलभौ दुर्वृत्तानामनुदिनमतः ।
तैः संसारो घृणितनरको रम्योऽप्येवं सदयहृदयः ॥ _भाषा-मन्दाक्रान्ता यदि अन्त्ययति (अन्त के सात अक्षर) से रहित हो, तब विद्वान् लोग उसे हंसी कहते हैं अर्थात जिस छन्द के सब चरणों में प्रथम चार अक्षर दीर्घ हों और बाद पांच अक्षर हस्व हों फिर दशम अक्षर दीर्घ हो और चार चार तथा छः छः अक्षरों पर विश्राम हो; उसको हंसी छन्द जानना चाहिए ॥ १९ ॥
(१७) दोधकवृत्तम् आद्यचतुर्थमहीनमते हे ! सप्तमकं दशमं च तथाऽन्त्यम् । यत्र गुरु प्रकटस्मृतिशक्ते! तत्कथितं ननु दोधकवृत्तम् ॥ २० ॥
अन्वयः-हे अहीनमते ! यत्र आद्यचतुर्थ सप्तमकं दशमं च तथा अन्त्यं गुरु ( स्यात् ), हे प्रकटस्मृतिशक्ते ! तत् ननु दोधकवृत्तं कथितम् ।