________________
अश्लीलांशवर्जितः
भाषा - जिसके चारों चरणों में प्रथम, चतुर्थ, पञ्चम और अष्टम अन्तर गुरु हो, वह माणवकाक्रीडनामक छन्द कहा गया है ॥ १२ ॥
(१०) प्रमाणिका ( नगस्वरूपिणी ) छन्दः द्वितुर्यपष्ठमष्टमं गुरु प्रयोजितं यदा |
तदा निवेदयन्ति तां बुधा नगस्वरूपिणीम् ॥ १३ ॥ अन्वयः - यदा द्विनुर्यपष्टम् अष्टमं च गुरु प्रयोजितं तदा बुधाः तां नगस्वरूपिणीं निवेदयन्ति ।
व्याख्या - यदा यस्मिन् छन्दसि द्वितुर्यषष्ठं द्वितीयं तुयं चतुर्थं पष्टम् अष्टमं अक्षरं गुरु दीर्घ प्रयोजितं प्रयुक्तं ( भवेत् ), तदा बुधाः पण्डिताः तां नगस्वरूपिणीं तन्नामकं छन्दः निवेदयन्ति कथयन्ति ।
उदाहरणं यथा
स्वमातुरङ्घ्रपङ्कजं समचितुं समुत्सुकाः । सदैव ये भवन्ति ते प्रयान्ति नूनमुन्नतिम् ॥
भाषा - जिसके प्रत्येक पाद में द्वितीय, चतुर्थ, षष्ट और अष्टम अक्षर दीर्घ हों, उसे पण्डितों ने नगस्वरूपिणी नाम का छन्द कहा है ॥ १३ ॥
(११) विद्युन्मालाच्छन्दः
सर्वे वर्णा दीर्घा यस्यां विश्रामः स्याद्वेदे वेदैः । छन्दोऽभ्येतद्विद्वृन्दै व्याख्याता सा विद्युन्माला ॥ १४ ॥ अन्वयः - हे छन्दोऽध्येतः ! यस्यां सर्वे वर्णाः दीर्घाः ( भवेयुः तथा ) वेदैः वेदैः विश्रामः स्यात् सा विद्वद्वृन्दैः विद्युन्माला व्याख्याता ।
:
व्याख्या - हे छन्दोऽध्येतः ! छन्दःशास्त्रविद्यार्थिन् ! यस्यां वृत्तौ सर्वे वर्णाः समस्तान्यक्षराणि दीर्घाः गुरुणि भवेयुः, तथा वेदैवें दैः चतुभिश्चतुभिरक्षरैः विश्रामो विरामः स्यात् भवेत् सा असौ विद्वद्वृन्दैः पण्डितगणैः विद्युन्माला तन्नामिका वृत्तिः व्याख्याता कथिता ।
:
,
उदाहरणं यथा—
वासोवल्ली विद्युन्माला
बर्हश्रेणी शाकश्वापः ।
यस्मिन् स स्यात् तापांच्छियै गोमध्यस्थः कृष्णाम्भोदः ॥
भाषा - जिसके सब अक्षर दीर्घ हों और चार २ अक्षरों पर विश्राम हो
उसको पण्डितगण विद्युन्माला छन्द कहते हैं ॥ १४ ॥