SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ श्रुतबोधः भाषा-जिस छन्द के चारों चरणों में पञ्चम अक्षर लघु तथा षष्ठ अक्षर गुरु हो, और दूसरे चौथे चरण में सप्तम अक्षर हस्व हों, और प्रथम तथा तृतीय चरण में सप्तम दीर्घ हों, उसको अनुष्टुप् छन्द कहते हैं ॥ १० ॥ (८) पद्यच्छन्दोलक्षणम् पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्टं गुरु विज्ञानीयादेतत्पद्यस्य लक्षणम् ।। ११ ।। अन्वयः-सर्वत्र पञ्चमं लघु द्विचतुर्थयोः सप्तमं ( लघु सर्वत्र ) षष्ठं (च) गुरु ( भवेत् ), एतत्पद्यस्य लक्षणं विजानीयात् । व्याख्या-यत्र छन्दसि सत्र चतुर्षु चरणेषु पञ्चमं पञ्चममनरं लघु हस्वं, द्विचतुर्थयोः द्वितीयतुर्थयोः पादयोः सप्तमं सप्तमसंख्याकमक्षरं लघु भवति, पष्टं पष्टाक्षरञ्च गुरु दीर्घ भवेत् , एतत् परस्य पद्यनाम्नश्छन्दसो लक्षणं चिह्न विजानीयात् वुध्येत । उदाहरणं यथा रामचन्द्र-दयादृष्टया नित्यं विद्याविलासभृत् : ब्रह्मशङ्करतां यातु भारते शिष्यमण्डली ॥ भाषा-जिसके चारों चरणों में पञ्चम अक्षर एवं द्वितीय और चतुर्थ चरणों में सप्तम अक्षर लघु हों और सर्वत्र पष्ठ अक्षर दीर्घ हों, उसको (पद्य ) छन्द कहने हैं ॥ ११ ॥ (९) माणवकाक्रीडच्छन्दः आदिगतं तुर्यगतं पञ्चममं चान्त्यगतम् । स्याद् गुरु चेत्तत्कथितं माणवकाक्रीडमिदम् ॥ १२ ॥ अन्वयः-आदिगतं नुर्यगतं पञ्चमकम् अन्त्यगतं च गुरु चेत् स्यात् , तत् इदं माणवकाक्रोडं कथितम् । व्याख्या-आदिगतं प्रथमं तुर्यगतं चतुर्थ पञ्चमकं पञ्चमम् अस्यगतं पादान्तवर्ति ( अष्टममिति यावत् ) च अक्षरं गुरु दीर्घ चेत् यदि स्यात् भवेत् , तत् तदा इदम् एतत् माणवकाकडं तन्नामकं वृत्तं कथितम् अभिहितम् । उदाहरणं यथा माणवकाक्रीडितकं यः कुरुते वृद्धवयाः । हास्यमसौ याति जने भिक्षुरिव स्त्रीचपलः ॥
SR No.009626
Book TitleShrutbodha
Original Sutra AuthorN/A
AuthorKanaklal Thakur, Bramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year1968
Total Pages34
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy