________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
तत्र त्वां परिणिन्ये च स्वं निन्ये च कृतार्थताम् । इत्युदन्तं सुतोऽश्रौषीत्पितुरुत्सङ्गसङ्गतः ॥१८९॥ सद्यश्चातुच्छमूर्छासिशस्त्रच्छिन्न इवापतत् । बालकल्पद्रुमः सत्रा पित्रोहर्षोच्छ्रयेण सः ॥१९०॥ अत्यन्तमातुरौ मातापितरौ तौ वितेनतुः । निस्तुलं तुमुलं येन मिलति स्माखिलो जनः ॥१९१॥ आ: ! किमेतदिति प्रोच्चैर्लोकोऽपि व्याकुलोऽभवत् । महतां सुखदुःखे हि सर्वसाधारणे यतः ॥१९२॥ शीतलैश्चान्दनजलैः कदलीदलमारुतैः । प्रचुरैरुपचारैश्च चिराच्चैतन्यमाप सः ॥१९३॥ नेत्रपत्रे पद्मपत्रे इवैतस्योन्मिमीलतुः । भास्वच्चैतन्ययोगेऽपि न पुनर्वदनाम्बुजम् ॥१९४॥ चक्षु प्रेक्षत प्रेक्षापूर्वकं सर्वतोऽपि सः । न पुनर्वादितोऽप्युच्चैर्वदति स्म कथञ्चन ॥१९५॥ छद्मस्थे किल 'सर्वज्ञे तस्मिन्मौनमुपेयुषि । नूनमस्य च्छलं जज्ञे दैवात्किञ्चित्त्वशाम्यत' ॥१९६॥ परं जिह्वा स्थितैवास्य हा दुर्दैववशेन नः । इति चिन्तातुरौ पुत्रं पितरौ वेश्म निन्यतुः ॥१९७॥ नानाप्रकारान् भूपोऽस्मिन्नुपचारानचीकरत् । ते त्वासन् विफला एवोपकारा इव दुर्जने ॥१९८॥ तथावस्थस्य तस्यासीत्षण्मासी न तु सोऽभ्यधात् । न च कश्चिज्जगौ सम्यनिदानं तदभाषणे ॥१९९॥
१. तीर्थकरे । २. अशंशमीत् इत्यपि पाठः ।