SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ षष्ठः श्राद्धविधिप्रकरणम् प्रकाश: जस्स कए आहारो, तस्सट्ठा चेव होइ आरंभो । आरंभे पाणिवहो, पाणिवहे दुग्गई चेव ॥ द्वारं १५। तथा ब्रह्म शीलं यावज्जीवं स्वीकार्यम् । यथा साधुपेथडेन द्वात्रिंशे वर्षे ब्रह्मोदचारि सौवर्णिकभीममड्यागमने । ब्रह्मफलमर्थदीपिकायामुक्तम् । द्वारम् १६। ___तथा प्रतिमादिस्तपोविशेषः कार्यः । आदिशब्दात् संसारतारणादिदुस्तपतपोविशेषग्रहः । तत्र प्रतिमा मासिकाद्याः ।। ताश्चैवमूचुः दसण वय सामाइअ पोसह पडिमा अबंभ सच्चित्ते । आरंभ पेस उद्दिट्ठवज्जए समणभूए अ॥ तत्र राजाभियोगादिषडाकाररहितं, चतुःश्रद्धानादिगुणोपेतं, सम्यग्दर्शनं, भयलोभलज्जादिभिरप्यनतिचरंस्त्रिकालदेवपूजादिपरो मासमात्रं सम्यक्त्वमनुपालयति इत्येषा प्रथमा प्रतिमा । द्वौ मासौ यावदखण्डितान्यविराधितानि च पूर्वप्रतिमानुष्ठानसहितान्यणुव्रतानि पालयतीति द्वितीया । त्रीन् मासान् उभयकालमप्रमत्तः पूर्वोक्तप्रतिमानुष्ठानसहितः सामायिकमनुपालयतीति तृतीया । चतुरो मासांश्चतुष्पा पूर्वप्रतिमानुष्ठानसहितोऽखण्डितं परिपूर्णं पौषधं पालयतीति चतुर्थी । पञ्चमासांस्त्यक्तस्नानो रात्रौ | चतुर्विधाहारवर्जी दिवा ब्रह्मचार्येवाऽबद्धपरिधानकच्छश्चतुष्पा गृहे तद् द्वारे चतुष्पथे वा परीषहोपसर्गादिनिष्कम्पकायोत्सर्ग पूर्वोक्तप्रतिमानुष्ठानं पालयन् सकलां रात्रिमास्ते इति पञ्चमी । एवं वक्ष्यमाणास्वपि प्रतिमासु पूर्वप्रतिमानुष्ठाननिष्ठाऽवसेया । नवरं, षण्मासान् ब्रह्मचारी भवतीति षष्ठी । सप्तमासान् सचित्ताहारान् परिहरतीति सप्तमी । अष्टौ मासान् स्वयमारम्भं न ४९१
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy