________________
श्राद्धविधिप्रकरणम्
प्रकाश:
स्वायुःप्रान्ते रैवतान्तश्चैत्यगर्भगृहत्रयं रत्नमणिस्वर्णमयबिम्बयुतं कृत्वा तदने काञ्चनबलानकं चक्रे । तत्र तद्विम्बं स्थापितं । क्रमाद्रैवते सङ्घपतिरत्नः स प्रौढसङ्घो यात्रार्थमाययौ । हर्षोत्कर्षात् स्नात्रे कृते लेप्यमयबिम्बं जगाल । ततः सङ्घपतिरत्नोऽतिदून: षष्ठिक्षपणतुष्टाऽम्बागिरा काञ्चनबलानकाद्वज्रमयं श्रीनेमिबिम्बमामतन्तुवेष्टितमानिन्ये । चैत्यद्वारागमने पश्चाद्विलोकने तत्तत्रैव तस्थौ । ततश्चैत्यद्वारं परावर्तितमद्यापि तथैवास्ति । केचिदाहुः, काञ्चनबलानके द्वासप्ततिर्महत्यः प्रतिमा आसन् । तत्राष्टादशाष्टादश हैम्यो रात्न्यो राजत्य आश्मन्यश्चेति द्वासप्ततिरिति रेवते श्रीनेमिप्रबन्धः । द्वारम् ।६।
तथा प्रतिमानां प्रतिष्ठा शीघ्रं विधाप्या । यदुक्तं षोडशकेनिष्पन्नस्यैवं खलु, जिनबिम्बस्योदिता प्रतिष्ठाशु । दशदिवसाभ्यन्तरतः, सा च त्रिविधा समासेन ॥ व्यक्त्याख्या खल्वेका, क्षेत्राख्या चापरा महाख्या च । यस्तीर्थकृद्यदा किल, तस्य तदाद्येति समयविदः ॥ ऋषभाद्यानां तु तथा, सर्वेषामेव मध्यमा ज्ञेया । सप्तत्यधिकशतस्य तु, चरमेह महाप्रतिष्ठेति ॥ बृहद्भाष्येऽपिवत्तिपइट्ठा एगा, खेत्तपइट्ठा महापइट्ठा य । एगचउवीससत्तरससयाण सा होइ अणुकमसो ॥ प्रतिष्ठाविधिश्च सर्वाङ्गीणतदुपकरणमीलन-नानास्थानश्रीसङ्घगुर्वाकारणप्रौढप्रवेशमहादितत्स्वागतकरण-भोजनवसनप्रदानादि
AAAAAAAAAAAAAAAAAAAAAA
४८३