________________
श्राद्धविधि
पञ्चमः
प्रकरणम्
प्रकाशः
जाए दुब्भिक्खभरे दुत्थीभूए जणे समत्थेवि । अवयरिओ एस जिणो, सेणादेवीइ उअरंमि ॥ सयमेवागम्म सुराहिवेणं संपूइआ तओ जणणी । वद्धाविआ य भुवणिक्कभाणुतणयस्स लाभेणं ॥ तद्दिअहं चिअ सहसा, समत्थसत्थेहिं धन्नपुन्नेहिं । सव्वत्तो इंतेहि, सुहं सुभक्खं तहिं जायं ॥
संभविआई जम्हा, समत्तसस्साई संभवे तस्स । तो संभवोत्ति नामं, पइट्ठिअंजणणिजणएहिं ॥ देवगिरौ साधुजगसिंहः स्वसमीकृतषष्ठ्यधिकत्रिशतीवणिक्पुत्रपार्थात् प्रत्यहं साधर्मिवात्सल्यं द्वासप्तकङ्कतिसहस्रव्ययेनैकैकं व्यधापयत् । एवं प्रतिवर्षं तस्य षष्ठ्यधिकत्रिशतीसाधर्मिकवात्सल्यान्यभूवन् । थिरापद्रे श्रीश्रीमालआभूः सङ्घपतिः षष्ठ्यधिकत्रिशतीसाधर्मिकान् स्वतुल्यांश्चके । यतः
किं तेन हेमगिरिणा रजताद्रिणा वा, यावाश्रिता हि तरवस्तरवस्त एव ।
मन्यामहे मलयपर्वतमेकमेव, यत्राम्रनिम्बकुटजा अपि चन्दनानि ॥ ___ साधुसारङ्गः पञ्चपरमेष्ठिमन्त्रपाठिभ्यः प्रवाहेण हैमटङ्ककं प्रत्येकं प्रददे । एकस्य चारणस्य पुनः पुनः पठेत्युक्तेर्नववारनमस्कारपाठिनो नव सौवर्णान् ददौ । इति सार्मिकवात्सल्यविधिः ।
(३) तथा प्रतिवर्षं जघन्यतोऽप्येकैका यात्रा कार्या । यात्रा च त्रिधा । यदुक्तम्
४४२