________________
पञ्चमः
श्राद्धविधिप्रकरणम् |
प्रकाशः
रमदेहाः, काश्चिद् द्वित्रादिभवान्तरितमोक्षगमनाः, शास्त्रेषु श्रूयन्ते । तदासां जननीनामिव, भगिनीनामिव, स्वपुत्रीणामिव वात्सल्यं | | | युक्तियुक्तमेवेत्यलं प्रसङ्गेन ।
सार्मिकवात्सल्येनैव च राज्ञामतिथिसंविभागवताराधनं, राजपिण्डस्य मुनीनामकल्प्यत्वात् । अत्र च भरतान्वये त्रिखण्डाधिपदण्डवीर्यदृष्टान्तो यथा-तं साधर्मिकभोजनपूर्वमेव सर्वदा भुञ्जानं परीक्षितुमन्यदेन्द्रः सुश्राद्धान् कोटिमितांस्तीर्थागतान् त्रिरत्नीद्वादशव्रतीसूचककाञ्चनसूत्रत्रिकतिलकद्वादशकालङ्कृतान् भरतकृतचतुर्वेदीवावदूकवदनान् दर्शयामास । तांश्च सभक्ति निमन्त्र्य भोजयत एव भूभुजो भास्वानस्तमितः । एवं राज्ञ उपवासाष्टकभवनेऽपि साधर्मिकभक्तिः प्रवर्द्धमानवयस्कशक्तिरिवाऽधिकाऽधिकैवाऽभवत् । ततस्तुष्टः शक्रस्तस्मै दिव्यधनुः शररथहारकुण्डलयुगलदानपूर्वं शत्रुञ्जययात्रार्थं तीर्थोद्धारार्थं चादिदेश। सोऽपि तथा चक्रे । श्रीसम्भवजिनेन प्राक्तृतीयभवे धातकीखण्ड ऐरावते क्षेत्रे क्षेमापुर्यां विमलवाहननृपत्वे महादुर्भिक्षे सकलसार्मिकाणां भोजनादिप्रदानेन जिनकर्म बद्धम् । ततः स प्रव्रज्याऽऽनतकल्पे सुरीभूय सम्भवजिनोऽजनि । तस्य चावतरणे फाल्गुनशुक्लाष्टम्यां जाते महादुर्भिक्षेऽपि तद्दिन एव सर्वतोऽप्यागतसमस्तधान्यानां सम्भवो बभूवेति सम्भवनाम प्रतिष्ठितम् । यद् बृहद्भाष्ये
सं सोक्खंति पवुच्चइ, दिढे तं होइ सव्वजीवाणं । तो संभवो जिणेसो, सव्वे विहु संभवा एवं ॥ भन्नंति भुवणगुरुणो, नवरं अन्नपि कारणं अत्थि । सावत्थी नयरीए, कयाइ कालस्स दोसेणं ॥
४४१