________________
चतुर्थः
श्राद्धविधिप्रकरणम्
प्रकाश:
तद्गदन्ति
ता तुंगो मेरुगिरी, मयरहरो ताव होइ दुत्तारो । ता विसमा कज्जगई, जाव न धीरा पवज्जंति ॥ ___ एवं च दुर्निर्वाहान् नियमान् स्वीकर्तुमशक्तोऽपि सुनिर्वाहान् स्वीकुर्यादेव । यथा मुख्यवृत्त्या वर्षासु सर्वदिग्गमननिषेध | उचितः । कृष्णकुमारपालादिवत् । तदशक्तौ यदा यासु दिक्षु गमनं विनापि निर्वहते, तदा तद्दिग्गमननिषेधं विधत्ते । एवं | सर्वसचित्तादीनि परिहर्तुमशक्तौ यानि विनापि यदा निर्वहते तानि तदा परिहरति । तथा यस्य यत्र यदा वा यन्न भवति यथा निःस्वस्य हस्त्यादि, मरुस्थलादौ नागवल्लीदलादि, स्वस्वकालं विनाऽऽम्रफलादि च, स तत्र तदा वा तन्नियमयति । एवमसद्वस्तुत्यागेऽपि विरत्यादिमहाफलम् । श्रूयते हि राजगृहे प्रव्रजितं द्रमकं बह्वनेन त्यक्तमित्यादि जना हसन्ति । तद्धेतुकं गुरुभिर्विहाराय प्रोक्तेऽभयमन्त्रिणा स्वर्णकोटीत्रयं चतुष्पथे राशीकृत्य जनानाकार्योक्तं । 'यः कूपादिजलज्वलनस्त्रीस्पर्श यावज्जीवं वर्जयति स एव एतद् गृह्णातु' । तैर्विमृश्योक्तम्- 'कोटीत्रयं त्यक्तुं शक्यं न तु जलादित्रयम्' । ततो मन्त्रिणोक्तम्, “रे जडाः ! तर्हि द्रमकमुनिं किं हसत ? असौ जलादित्रयत्यागात्कोटित्रयाधिकत्यागी।" ततो जनैः प्रतिबुद्धैः क्षमितोऽसौ । इत्यसद्वस्तुत्यागे ज्ञातम् । तस्मादसम्भवद्वस्तूनामपि नियमा ग्राह्याः, अन्यथा तु तत्तद्वस्त्वग्रहणेऽपि पशूनामिवाविरतत्वं तत्तन्नियमफलेन च वञ्च्यते । यदाह भर्तृहरिः
४२८