________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
कश्चाज्ञातस्वरूपेण योद्धधुर्योऽपि युध्यताम् । पारावार ह्यपारं किं तरेत्तारकमान्यपि ॥३४२॥ पञ्चभिः कुलकम् । ततस्त्रस्ताः समस्तास्ते विहस्ता व्यस्तविक्रमाः । अक्रमादेव हक्कातः प्रत्यावृत्ताः शृगालवत् ॥३४३॥ गत्वा विद्याधरेन्द्रस्य सवितुर्बालका इव । यथास्थितमवोचस्ते गोप्यं स्वस्वामिने नु किम् ? ॥३४४॥ अथ प्रथमजीमूत इव गर्जितमादधन् । कोपारुणेक्षणोत्क्षेपैस्तडिद्दण्डान् विडम्बयन् ॥३४५॥ ललाटपट्टघटितभृकुटीभीषणाननः । पञ्चानन इवौजस्वी यशस्वी सैवमूचिवान् ॥३४६॥ युग्मम् । मुधा भयातुरान् धिग् वः कातरान् वीरमानिनः । कः कीरश्च ? कुमारश्च को वान्योऽप्यसुरः सुर: ? ॥३४७॥ साम्प्रतं मत्कृतं रे रे रङ्काः ! पश्यत पश्यत । इत्युच्चैर्विब्रुवन्नेष रूपं दशमुखं व्यधात् ॥३४८॥ लीलाग्रस्तरिपुप्राणं कृपाणं पाणिना वहन् । एकेन सोऽपसव्येन सव्येन फलकं पुनः ॥३४९।। एवमन्येन काण्डानां काण्डं समणिसर्पवत् । यमदोर्दण्डचण्डश्रिकोदण्डमपरेण च ॥३५०॥ इतरेण स्फुरद्घोषं शङ्ख श्लोकमिव स्वकम् । नागपाशं रिपुयशोनागपाशं परेण च ॥३५१॥ कुन्तमन्तकदन्तीन्द्रदन्तमन्तकरं द्विषाम् । पशु प्रत्यर्थिदुदर्श गिरीन्द्रगुरुमुद्गरम् ॥३५२॥
१. पञ्चभिरर्थतः कुलकं इति को० ह० प्र० पाठः ।
३४९