________________
प्रथमः
प्रकाशः
८
उदारं सारशृङ्गारं शृङ्गारमिव जङ्गमम् । स्वं शुद्धान्तं स निध्याय ध्यायति स्मेति विस्मयात् ॥११॥ अन्तःपुरं पुरन्ध्रीणां सारोद्धार इवावनेः । मयैतत्प्राप्यते विधेः काऽप्यहो सुप्रसन्नता ॥१२॥ ईदृशः सुदृशः सन्ति नूनं नान्यस्य कस्यचित् । तारास्तारापतेरेव दाराः सर्वग्रहेषु वा ॥१३॥ इत्युच्चैः प्रौढिसुप्रापाद्यावद्दर्पान्नृपस्य हृद् । पूरादिव सरिद्वर्षासुप्रापात्प्लवते बहिः ॥१४॥ तावत्प्रस्ताववक्तेव पण्डितः पिण्डितः श्रिया । कश्चिदुच्चैः शुकः श्लोकं माकन्दस्थोऽब्रवीद्यथा ॥ १५ ॥ क्षुद्रस्यापि न कस्य स्याद् गर्वश्चित्तप्रकल्पितः । शेते पातभयाद् व्योम्नः पादावुत्क्षिप्य टिट्टिभः ॥ १६ ॥ तं निशम्य नृपो दध्यावहो धृष्णुरयं शुकः । एवं गर्वं प्रकुर्वन्तं खर्वीकुर्वीत मां किमु ॥१७॥ यदि वाजाऽकृपाणीयात्काकतालीयतोऽथवा । घुणाक्षरीयात्खलति बिल्वीयादथवा नयात् ॥१८॥ स्वभावेनैव "कीरोऽमुं पापठीत्यशठाशयः । ध्यायत्येवं नृपे कीरः पुनरन्योक्तिमुक्तवान् ॥१९॥ युग्मम् ॥
पक्षिन् ! प्राप्तः कुतस्त्वं ननु निजसरसः किंप्रमं तन्महीयः
किं मे धाम्नोऽपि कामं प्रलपसि किमरे मत्पुरः पाप ! मिथ्या ।
१. अन्तः पुरम् २. स्त्रीणाम् ३. आम्रस्थः । ४. खलवाट ५. शुकः ।
AAAAAA
श्राद्धविधिप्रकरणम्