________________
|
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
सम्मुखं गमनादिकं करोति । ततः सविनयं संविग्नभाविताभावितक्षेत्र-सुभिक्षदुर्भिक्षादिकाल-सुलभदुर्लभादिदेयद्रव्य-आचार्योपाध्यायगीतार्थतपस्विबालवृद्धग्लानसहाऽसहादिपुरुषाद्यपेक्षया स्पर्धा-महत्त्व-मत्सर-स्नेह-लज्जा-भय-दाक्षिण्य-परानुवर्तनाप्रत्युपकारेच्छामायाविलम्बाऽनादरविप्रियोक्तिपश्चात्तापादिदानदोषवर्जमेकान्तात्मानुग्रहबुद्ध्या द्विचत्वारिंशद्भिक्षादोषाद्यदूषितनिःशेषनिजान्नपानवस्त्रादेर्भोजनाद्यनुक्रमेण स्वयं स्वहस्तपात्रधरणादिना पार्श्वे स्थित्वा भार्यादिपाश्र्वाद्वा दानं दत्ते । द्विचत्वारिंशद् भिक्षादोषाः पिण्डविशुद्ध्यादिभ्योऽभ्यूह्याः । ततो वन्दित्वा स्वगृहद्वारादि यावदनुव्रज्य च निवर्त्तते । साध्वभावे त्वनभ्रवृष्टिवत्साध्वागमनं जातु स्यात्तदा कृतार्थ: स्यामिति दिगालोकं कुर्यात् । तथा चाहु:
जं साहूण न दिन्नं, कर्हि पि तं सावया न भुंजंति । पत्ते भोअणसमए, दारस्सालोअणं कुज्जा ॥ संथरणम्मि असुद्धं, दुह्रवि गिण्हत दिंतयाणहियं । आउरदिटुंतेणं, तं चेव हिअं असंथरणे ॥ संथरणम्मित्ति संस्तरणे साधूनां निर्वाहे सति, असंस्तरणे अनिर्वाहे दुर्भिक्षग्लानाद्यवस्थायामित्यर्थः । तथापहसंतगिलाणेसु, आगमगाहीसु तहय कयलोए । उत्तरपारणगम्मि अ, दिन्नं सुबहुप्फलं होइ ॥ एवं देसं तु खित्तं तु विआणित्ता य सावओ । फासुअं एसणिज्जं च देइ जं जस्स जुग्गयं ॥ असणं पाणगं चेव, खाइमं साइमं तहा । ओसहं भेसजं चेव, फासुअं एसणिज्जयं ॥
३१९