________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
गुरुवंदणमह तिविहं, तं फिट्टा-थोभ-बारसावत्तं । सिरनमणाइसु पढमं, पुन्नखमासमणदुगि बीअं ॥ (१) तइअं तु छंदणदुगे, तत्थमिहो आइमं सयलसंघे । बीअं तु दंसणीण य पयट्ठिआणं च तइअं तु ॥ (गु. भा. ३८-३९) येन च प्रतिक्रमणं कृतं न स्यात्तेन विधिना वन्दनं दातव्यम् । यद्भाष्येइरिआकुसुमिणुस्सग्गो चिइवंदण पुत्ति वंदणालोयं । वंदण खामण वंदण संवरचउथोभदुसज्झाओ ॥ इरिआचिइवंदणपुत्तिवंदणं चरिमवंदणालोअं । वंदणखामणचउथोभदिवसुसग्गो दुसज्झाओ ॥ अनयोर्व्याख्या
ईर्यापथिकी प्रथम प्रतिक्रम्यते, तदनु कुसुमिणेत्यादि कायोत्सर्गः शतोच्छासमानः, कुस्वप्नाद्युपलम्भे त्वष्टोत्तरशतोच्छासमानः, ततश्चैत्यवन्दना, ततः पुत्तित्ति' मुखवस्त्रिकाक्षमाश्रमणपूर्वं प्रतिलेख्या, ततो वन्दनकद्वयमालोचनं च, पुनर्वन्दनकद्वयं
क्षामणकं च, पुनर्वन्दनकद्वयं 'संवरत्ति' प्रत्याख्यानं च, 'चउथोभत्ति' भगवन् इत्यादीनि चत्वारि क्षमाश्रमणानि, ततः 4 सज्झायसन्दिसावउं, सज्झायकरउं इति क्षमाश्रमणद्वयं दत्त्वा स्वाध्यायः कार्यः । इति प्रातस्त्यवन्दनकविधिः ।
प्रथममीर्यापथिकी प्रतिक्रमणं, ततश्चैत्यवन्दना, क्षमाश्रमणपूर्वं मुखवस्त्रिका प्रतिलेखनं, वन्दनकद्वयं, दिवसचरिमं इति प्रत्याख्यानं च, ततो वन्दनकद्वयमालोचनं च वन्दनकद्वयं क्षामणं च, भगवन् इत्यादि थोभवन्दनानि चत्वारि, ततो
AA
२२१