________________
प्रथमः
प्रकाशः
२२०
bbbbbbb
प्रतिपच्चन्द्रं सुरभि, नकुलीं नकुलः पयश्च कलहंसः । चित्रकवल्लीं पक्षी सूक्ष्मं धर्मं सुधीर्वेत्ति ॥ इत्यलं प्रसङ्गेन ।
अथ गाथोत्तरार्द्धव्याख्या एवं जिनाच विधाय, दृढा न तु शिथिलाः पञ्च ज्ञानादय आचाराः, 'काले विणए बहुमाणे इत्याद्यागमोक्ता यस्य सः । तथा आचारपञ्चकव्याख्या त्वस्मदुपज्ञादाचारप्रदीपग्रन्थाद् ज्ञेया । एवंविधस्य गुरोराचार्यादेः पार्श्वे प्रत्याख्यानं स्वयं यत्प्राकृतं तदेव विशिष्टं वा विधिनोच्चारयति, गुरुमुखेन प्रतिपद्यते इत्यर्थः । त्रिविधं हि प्रत्याख्यानविधानम् आत्मसाक्षिकं देवसाक्षिकं गुरुसाक्षिकं च । तद्विधिश्चायं, चैत्ये देववन्दनार्थमागतानां स्नात्रादिदर्शनधर्मदेशनाद्यर्थं स्थितानां वसतौ वा चैत्यवन्नैषेधिकीत्रयाभिगमपञ्चकादियथार्हविधिना गत्वा सद्गुरूणां धर्मदेशनायाः प्राक् पश्चाद्वा यथाव पञ्चविंशत्यावश्यकविशुद्धं द्वादशावर्त्तवन्दनं दत्ते । महाफलं चेदम् । यतः—
नीआगोअं खवे कम्मं, उच्चागोअं निबंधए । सिढिलं कम्मगंठिं तु, वंदणेणं नरो करे ॥
तित्थयरत्तं सम्मत्तखाइअं सत्तमी तड़आए । आउं वंदणएणं, बद्धं च दसारसीहेण ॥
शीतलाचार्यस्य वन्दनार्थागतविकालबहिः स्थितरात्रिजातकेवलचतुर्भागिनेयानां प्राक्कुधा द्रव्यवन्दनं तद्गिरा भाववन्दने तु केवलम् । गुरुवन्दनं च त्रिधा । यद् भाष्यं
१. सुरनी इति को० ह० प्र० पाठः ।
श्राद्धविधिप्रकरणम्