________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
इत्युक्त्वा देवस्य मस्तके पुष्पारोपणम् । गंधायाड्डिअमहुअरमणहरझंकारसद्दसंगीआ । जिणचलणोवरि मुक्का हरउ तुम्ह कुसुमंजली दुरिअं ॥
इत्यादिपाठैः प्रतिगाथादिपाठं जिनचरणोपरि एकेन श्रावकेण कुसुमाञ्जलिपुष्पाणि क्षेप्याणि । सर्वेषु कुसुमाञ्जलिपाठेषु च तिलकपुष्पपत्रधूपादिविस्तरो ज्ञेयः । अथोदारमधुरस्वरेणाऽधिकृतजिनजन्माभिषेककलशपाठः । ततो घृतेक्षुरसदुग्धदधिसुगन्धिजलैः पञ्चामृतैः स्नात्राणि, स्नात्रान्तरालेषु च धूपो देयः । स्नात्रकालेऽपि जिनशिरः पुष्पैरशून्यं कार्यम् । यदाहुर्वादिवेतालश्रीशान्तिसूरयः
आस्नात्रपरिसमाप्तेरशून्यमुष्णीषदेशमीशस्य । सान्तर्धानाऽब्धारापातं पुष्पोत्तमैः कुर्यात् ॥
स्नात्रे च क्रियमाणे निरन्तरं चामरसङ्गीततूर्याद्याडम्बर: सर्वशक्त्या कार्यः । सर्वैः स्नात्रे कृते पुनरकरणाय शुद्धजलेन धारा देया । तत्पाठश्चायम् -
अभिषेकतोयधारा धारेयं ध्यानमण्डलाग्रस्य । भवभवनभित्तिभागान् भूयोऽपि भिनत्तु भागवती ॥
ततोऽङ्गरूक्षणविलेपनादिपूजा प्राक्पूजातोऽधिका कार्या । सर्वप्रकारैर्धान्यपक्वान्नशाकविकृतिफलादिभिर्बलिढौकनम्, ज्ञानादिरत्नत्रयाढ्यस्य लोकत्रयाधिपतेर्भगवतोऽग्रे पुञ्जत्रयेणोचितं स्नात्रपूजादिकं पूर्वं श्रावकैर्वृद्धलघुव्यवस्थया, ततः श्राविकाभिः
१६४