________________
प्रथमः प्रकाशः
श्राद्धविधिप्रकरणम्
सर्वकलाविज्ञानेषु सर्वेषाम् । उक्तमपि
अभ्यासेन क्रियाः सर्वा अभ्यासात् सकलाः कलाः । अभ्यासाद् ध्यानमौनादि किमभ्यासस्य दुष्करम् ? ॥ निरन्तरं विरतिपरिणामाभ्यासे च प्रेत्याऽपि तदनुवृत्तिः स्यात् । यदुक्तंजं अब्भसेइ जीवो, गुणं च दोसं च एत्थ जम्मम्मि । तं पावइ परलोए, तेण य अब्भासजोएण ॥
तस्माद् यथेच्छमपि द्वादशव्रतप्रतिबद्धनियमा विवेकिना स्वीकार्याः । अत्र च श्राद्धश्राविकायोग्यमिच्छापरिमाणं सविस्तरं व्याख्येयं, यथा तन्नियमानां सम्यक् परिज्ञानपूर्वं प्रतिपत्तौ भङ्गादिदोषो न स्यात् । नियमाश्च विमर्शपूर्वकं तथैव ग्राह्या यथा निर्वोढुं शक्यन्ते । सर्वेष्वपि नियमेषु च सहसाऽनाभोगाद्याकारचतुष्कं चिन्त्यं, तेनाऽनाभोगादिना नियमितबहुवस्तुग्रहणेऽपि नियमभङ्गो न स्यात्, किन्तु अतिचारमात्रम् । ज्ञात्वा त्वंशमात्रग्रहणेऽपि नियमभङ्ग एव, जातु दुष्कर्मपारवश्येन ज्ञात्वापि भङ्गेऽग्रतो नियमः पाल्य एव धर्मार्थिना । प्रतिपन्नपञ्चमीचतुर्दश्यादितपोदिनेऽपि तिथ्यन्तरभ्रान्त्यादिना सच्चित्तजलपानताम्बूलभक्षणकियद्भोजनादौ यदा तपोदिनं ज्ञातं तदनु मुखान्तःस्थमपि न गिलति, किन्तु तत्त्यक्त्वा प्रासुकवारिणा मुखशुद्धिं कृत्वा तपोरीत्यैव तिष्ठति, तद्दिने च यदि भ्रान्त्या पूर्ण भुक्तस्तदा द्वितीयदिने दण्डनिमित्तं तत्तपः कार्य, समाप्तौ च तत्तपो वर्द्धमानं
१०८
१. चिन्त्यतेऽना इति को० ह० प्र० पाठः ।