SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 5 श्रीजयसिंहसूरिविरचितं ॥धर्मोपदेशमालाप्रकरणम् ॥ [सविवरणम् ॥] ॥ नमः श्रीश्रुतदेवतायै ॥ प्रणिपत्य जिनं श्रुतदेवतां च धर्मोपदेशमालयाः । वक्ष्यामि विवरणमिदं गुरूपदेशेन विस्पष्टम् ॥ अत्र कश्चिदाह-नारब्धव्यं विवरणमिदं प्रयोजनरहितत्वात्, कण्टकशाखामर्दनवत्। तथा निरभिधेयत्वात्, काकदन्तपरीक्षावत् त्याऽसम्बद्धत्वात्, दश दाडिमानि, षट् अपूपा इत्यादिवाक्यवत् । तदमीषां हेतूनां असिद्धत्वप्रदर्शनार्थं प्रेक्षावन्त(तां) प्रवृत्त्यर्थं च प्रयोजनादि पूर्वं प्रर्यत इति । उक्तं च "प्रेक्षावन्त( तां) प्रवृत्त्यर्थं फलानि(त्रि )तयं स्फुटम् । मङ्गलं चैव शास्त्रादौ वाच्यमिष्टार्थसिद्धये" [ ] इत्यतः प्रयोजनम्, अभिधेयं, सम्बन्धो(न्धं) मङ्गलं च प्रदर्शयन् गाथाद्वयमाह प्रकरणकार: सिज्झउ मज्झ वि सुयदेवि ! तुज्झ भ( स )रणाउ सुंदरा झत्ति । 15 धम्मोवएसमाला विमलगुण जयपडाय व्व ॥१॥ जिण-सिद्ध-सूरि-उवज्झाय-साहु-सुय-देविसंघ-नाणाणि । धम्मोवएसमालं थोऊण भणामि सुयविहिणा ॥२॥ [सिध्यतां ममापि श्रुतदेवि ! तव स्मरणात् सुन्दरा झटिति । धर्मोपदेशमालाविमलगुणा जगत्पताकेव ॥१॥ 20 १. क.यां । २. ह. था । सं। ३. ज.र्शत । ४. ज. दिच्छत ।
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy