________________
ऋषिभाषितानि
अक्षोपाङ्गः, व्रणे लेप:, यच्च जतुनस्तापनम्, यच्चेषोर्नामनम्, तदालम्बनतो युक्तित: - यात्रामात्रार्थभोज्यादियोगात्, कार्यम् - ज्ञानाद्याराधनात्मकं सिषाधयिषितं साध्यम्, तस्य कारणम्- निष्पादनम्, एतच्च प्राक् प्रपञ्चितमेवेति न पुनः प्रतन्यते (ऋषिभाषिते २५ - ६), युक्तं चैतत्, अन्यथा विषयोदीरणाद्यनर्थसम्भवात्, तथा चार्षम् अच्चाहारो न सहे, अइणिद्धेण विसया उइज्जति । जायामायाहारो, तंपि पकामं न इच्छामि।। उस्सन्नकयाहारो अहवा विगईविवज्जियाहारो । जं किंचि कयाहारो अवउज्झियथोवमाहारो ।। एवं स्तोकपरिभोगेन शेषमहानाद्देववन्दनीयताऽऽगमेऽभिहिता, सा च विबुधैर्गुणोत्कर्षदर्शनादिति यतितव्यमत्र गुणोत्कर्षसस्पृहैः, तदाह- थोवाहारो थोवभणिओ य जो होइ थोवनिदो य थोवोवहिउवगरणो तस्स हु देवावि पणमंति इति ( आवश्यकनिर्युक्तौ १२८० - १२८२ ) ननु यस्स्तोकेनाहारेण न संस्तरति तस्य किमिति चेत् ?
अत्राह
-
आहारादीपडीकारो सव्वण्णुवयणाहितो । अप्पा हु तिव्ववहिस्स संजमट्ठाए संजमो ||
-
. २३९
।।४५-४९।। तीव्रवह्नेः प्रचण्डजठराग्निवतः, आत्मनः - जीवस्य, षष्ठ्यर्थे प्रथमा, आहारादिना - क्षुधानिवृत्तिप्रयोजकेन पर्याप्तकेनान्नपानप्रभृतिना, प्रतिकारः - क्षुद्बाधाप्रतिकृतिः, सर्वज्ञ
आर्षोपनिषद् वचनाख्यातः, परमात्मप्रवचनेऽनुज्ञातः, तदुक्तम् - अयावयट्ठा भोच्चा णं जइ तेण न संथरे ।। तओ कारणमुप्पन्ने भत्तपाणं गवेसए । इति (दशवैकालिके ५/२/२-३), नन्वस्यास्तोककृत्वरभ्यवहरणमस्तोकमात्राभ्यवहरणं वा किं प्रवचनविराधना, न वेति चेत् ? नेत्युच्यते, तदनुज्ञातप्रवृत्तेस्तद्विराधनाऽसम्भवात्, अत एवापवादस्योत्सर्गभेदत्वमुपपादितमाचार्यैः, यथा - अपवादोऽपि सूत्राबाधया गुरुलाघवालोचनापरोऽधिकदोषनिवृत्ताय शुभः शुभानुबन्धी, महासत्त्वासेवित उत्सर्गभेद एव इति (ललितविस्तरायाम् ), युक्तं चैतत् तस्यापि संयमार्थत्वात् चारित्राराधनप्रयोजनेन क्रियमाणत्वात्, कथञ्चित्सोऽपि संयम एव, कथञ्चित्फलात्मकत्वाद्धेतोः, यथोक्तम् - भावमोक्षस्तु तद्धेतुरात्मा रत्नत्रयान्वयी इति (अध्यात्मसारे १८-१७९) ।
न चैवं यथेच्छविहारेऽपि संयमव्यपदेशप्रसङ्ग इति वाच्यम्, मूलोक्त- हु पदेनापास्तत्वात् । अयमाशयः उक्तप्रतिकारस्तीव्रवह्नेरेवानुज्ञातः, नान्यस्य, अतृष्णामूलनिषिद्धप्रवृत्तेरुत्सर्गासहिष्णुतानियतत्वेन सहिष्णोः सतृष्णताभावेनापवादपदविषयताऽयोगात्, उन्मार्गस्थितत्वात्, ततश्च नास्मिन् संयमगन्धोऽपीति कुतस्तद्वत्त्वेन व्यपदेशाशङ्काऽपीति ।
२४०
एतेनासहिष्णोरपि सतृष्णस्योत्सर्गनिषिद्धप्रवृत्तौ संयमव्यपदेशः प्रत्युक्तः, उपपादितोत्सर्गभेदात्मकापवादलक्षणस्य तस्मिन् समन्वयासम्भवादिति दिक् ।
तस्मादशठभावेन सूत्रसापेक्षवृत्त्या तृष्णालतोन्मूलनं विधेयम्,