________________
• ऋषिभाषितानि
आश्रव-लक्षणम्। प्रतिपक्षज्ञापनानन्तरं प्रस्तुतमवगमयतिएस एव विवण्णासो, संवुडो संवुडो पुणो । कमसो संवरो नेओ देस सव्वविकण्पिओ । । ९-११ ।। एष एव - कर्मद्वारलक्षणाश्रव एव संवृतः सन् विपन्नाश:भवोद्भवदुःखसन्दोहविनाशः, तद्धेतुतया । आश्रवस्यैव मुक्तिहेतुताप्रतीतिप्रसङ्ग इति चेत् ? अनुपासितगुरोस्तथैव, इतरस्य तु संवृतत्वविशिष्टाश्रवद्वारस्य संवरे पर्यवसिततया तत्रैव सिद्धिसाधनताप्रत्यय इत्यदोषः ।
८७
संवृतः-प्राणातिपाताद्याश्रवसंवरोपेत आत्मैव पुनः क्रमशः वक्ष्यमाणविधया संवरो ज्ञेयः संवृतसंवरयोः कथञ्चिदभिन्नत्वात्, इतरथा तस्येति व्यपदेशानुपपत्तेरतिप्रसङ्गाच्चेति सूक्ष्ममीक्षणीयम्।
कथं ज्ञेय इत्याह- देशसर्वविकल्पाभ्यां विकल्पितः, तत्र देशसंवर: - तत्तदकरणनियमप्रयुक्तोत्कृष्टस्थित्यादिबन्धनिरोधः । सर्वसंवरस्तु शैलेषीसमयभावी सर्वथा सर्वकर्मादाननिरोधात्मकः । तदेष संवरः, निर्जरामाह
सोपायाणा निरादाणा विपाकेयरसंजुया ।
उवक्कमेण तवसा निज्जरा जायए सया । । ९-१२ ।। सोपादाना उपादानसहिता । इदमुक्तं भवति - निर्जराया निमित्तकारणं तपः, उपादानकारणं तु तपोलक्षणक्षायोपशमिकभावपरिणत आत्मैव, न हि निमित्तशते सत्यपि निरुपादाना
१. सम्बन्धाभावात् । २. चेदन्तरेणापि सम्बन्धं तस्य संवर इति व्यपदिश्यते तर्ह्यन्यस्यापि सोऽस्तु, अविशेषादिति । ३. योगबिन्दी । ।४१५-६-७ ।।
आर्षोपनिषद्
कार्यसिद्धिरिति सोपादानेत्युक्तम् । मा भूत् कस्यचिदनेनापि कर्मादानप्रत्यय इत्याह- निर्गतमादानं कर्मग्रहणलक्षणं यस्याः सा निरादाना, कर्मनिर्जरणस्यैव निर्जरार्थत्वात्, तामेव विशेषयति विपाकः - अनुभागः, इतर प्रदेश, ताभ्यां संयुक्ता यथायोगं समन्विता। अयं भावः, द्विविधं हि कर्म, प्रदेशकर्मानुभागकर्म च । तत्र प्रदेशकर्मोदयलक्षणा निर्जरा तत्कर्मजन्यविकारजननासमर्था, अनुभागकर्मोदयरूपा त्ववश्यं सफलेति ।
८८
उपक्रम :- दूरस्थस्य सतो वस्तुनस्तैस्तैः प्रकारैः समीपानयनम्, तेन, यदुक्तम्, उपक्रमणमुपक्रान्तिर्दूरस्थनिकटक्रिया - इति । यश्चिरेण कर्मक्षयोऽभविष्यदसौ कर्मस्थित्यपवर्तनद्वारेणोपचारत: किलोपक्रम्यार्वागानीत इत्यसौ कर्मोपक्रमकाल उच्यते। स चात्र तपोनिमित्तकोऽभिप्रेत इत्याह तपसा,
तपः प्रयुक्तेनोपक्रमेण निर्जरा जायत इति योगः । सदा - अनिशम्, सन्तततपोनिरतानामिति शेषः । तदाह- सव्व गईणमेवं परिणामवसादुवक्कमे होज्जा । पायमनिकाइयाणं तवसा उ निकाइयाणं पि इति । नन्वेवं पूर्वापरविरोधः, वेयणा तु णिकायते - इत्यस्य वक्ष्यमाणत्वादिति चेत् ? न तस्य सामान्याभिधानत्वात्, प्रस्तुतस्य च शुक्लध्यानात्मकतपोविषयत्वादिति भिन्नापेक्षतया विरोधविरहात् । तथा च तादृशतपसा निकाचितान्यपि कर्माण्युपक्रम्यन्त एव । यदि पुनर्यथाबद्धं
-
१. व्याख्याप्रज्ञप्ती । २. उत्तराध्ययनवृहद्वृत्ती । ३. विशेषावश्यकभाष्ये । । २०४६ ।। ४. ऋषिभाषिते । । ९-१५ ।।