________________
८६
Re-ऋषिभाषितानि -
- ८५ रुन्ध्याद्यथाक्रमम्।। असंयमकृतोत्सेकान् विषयान् विषसन्निभान्। निराकुर्यादखण्डेन संयमेन महामतिः।। तिसृभिर्गुप्तिभिर्योगान् प्रमाद चाप्रमादतः। सावद्ययोगहानेनाविरतिं चापि साधयेत्।। सद्दर्शनेन मिथ्यात्वं शुभस्थैर्येण चेतसः। विजयेतातरौद्रे च संवरार्थं कृतोद्यमः - इति । एवं निर्जरोपाया अपि द्रष्टव्या यथा - अनशनमौनोदर्य वृत्तेः सक्षेपणं तथा। रसत्यागस्तनुक्लेशो लीनतेति बहिस्तपः।। प्रायश्चित्तं वैयावृत्त्यं स्वाध्यायो विनयोऽपि च। व्युत्सर्गोऽथ शुभं ध्यानं षोढेत्याभ्यन्तरं तपः।। दीप्यमाने तपोवह्नौ बाह्ये चाभ्यन्तरेऽपि च। यमी जरति कर्माणि दुर्जराण्यपि तत्क्षणात् - इति । सम्यगाचरेत् - विपक्षलेशपरिमुक्ततया तदुपायादृतो भवेत्, अन्यथाऽपायानपायात्। तदाहुः सूरयः - संवरच्छिद्रं हि गिरिशिखरात् पातालतलपातः - इति । आश्रवनिरोध एव संवर इत्याश्रवहेतूनेवाचष्टे
मिच्छत्तं अनियत्ती य पमाओ यावि णेगहा। कसाया चेव जोगा य कम्मादाणस्स कारणं।।९-८।।
मिथ्यात्वम् - आभिग्राहिकादिभेदैः पञ्चधा, अनिवृत्तिश्च पञ्चाश्रवपञ्चेन्द्रियमनोऽनिग्रहैर्द्वादशधा, प्रमादश्चाप्यनेकधा, मद्यादिभेदैः। कषायाश्चैव क्रोधादयः, योगाश्च मनोवाक्कायात्मकाः, कर्मादानस्य - आश्रवस्य कारणम् - निबन्धनम्। तदाह वाचकमुख्यः - मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः - इति। बन्धानन्तरप्रक्रियामाह
आर्षोपनिषद् - जहा अंडे जहा बीए तहा कम्मं सरीरिणं। संताणे चेव भोगे य नाणावन्नत्तमच्छइ।।९-९।।
यथाऽण्डं श्वेतादिप्रतिनियतवर्णमपि स्वनिहितशक्त्यनुसारेण विविधवर्णं पारापतादिलक्षणं विशेषं जनयति। यथा बीजमप्युक्तविधयाऽनेकवर्णं सहकारादिविशेषं जनयति। तथैव शरीरिणाम् - संसारिजीवानाम्, कर्म सन्ताने बीजस्याङ्कुरादिसन्तानवत् सङ्क्रमादिकरणपरम्परायाम्, चैव - समुच्चये, भोगे च - तद्विपाकवेदनात्मके नानावर्णत्वमास्यति - नारकादिपर्यायहेतुतां प्रतिपद्यते, सङ्क्रमादिना नानाप्रकारभोगनिबन्धनवैचित्र्यमधिगच्छतीति भावः, यथा दानानुतापान्मम्मणश्रेष्ठिनस्तज्जनितपुण्यस्य पापानुबन्धिता, प्राप्तसम्पदुपभोगवञ्चना च। ___ यद्वा कार्मणवर्गणापुद्गलानां समानत्वेऽपि तत्तद्योगप्रयुक्तबन्धादिवैचित्र्यतः कर्मतया परिणतानां तेषां वैचित्र्यमित्यर्थः । वैचित्र्यमेवाह
निव्वत्ती वीरियं चेव संकप्पे य अणेगहा। नाणावण्णवियक्कस्स दारमेयं हि कम्मुणो।।९-१०।।
निर्वृत्तिः - ज्ञानावरणप्रकृत्यादिविशेषविशिष्टतया निष्पत्तिः, वीर्यम् - अनुभागोपहितं फलजननसामर्थ्यम्, चैव - समुच्चये, सङ्कल्पश्च, सङ्क्लेशादिप्रयुक्तसानुबन्धभावः, हेतौ फलोपचारात्। एवमनेकधा प्रवचनप्रतिपादितप्रभूतप्रकारैः, नाना - बहुविधाः, वर्णाः पर्यायविशेषाः, त एव वितर्काः - विकल्पा यस्य तत् नानावर्णवितर्कम्, तस्य कर्मण एतद्धि द्वारम् -
१.योगशास्त्रे ।।४-८१-८५ ।। २.योगशास्त्रे ।।४-८९-९१ ।। ३.योगशतकवृत्ती ।।३५।।