________________
70 ऋषिभाषितानि
१९५
-
नन्वेकत्र विनिवेशेऽपि काचः काचो मणिर्मणिरितिनीत्यां यत्र कुत्रापि युञ्जान आर्य आर्य एवेत्यनार्यवर्जनोपदेशो निरर्थकः, उक्तं च - सुचिरंपि अच्छमाणो, वेरुलिओ कायमणीपउम्मीसो । नोवेइ कायभावं, पाहण्णगुणेण नियएणं े इति चेत् ? न, जीवस्य भावुकद्रव्यत्वेन दृष्टान्तवैषम्यात्, तथा चार्षम् - भावुगअभावुगाणि य, लोए दुविहाणि होंति दव्वाणि । वेरुलिओ तत्थ मणी, अभावग अन्नदव्वेहिं । । जीवो अणाइनिहणो, तब्भावणभाविओ य संसारे । खिष्पं सो भाविज्जइ, मेलणदोसाणुभावेणं ।। अंबस्स य निंबस्स य दुहं पि समागयाई मूलाई संसग्गी विणट्ठो, अंबो निंबत्तणं पत्तो ।। जह नाम महुरसलिलं, सायरसलिलं कमेण संपत्तं । पावेइ लोणभावं, मेलणदोसाणुभावेणं । एवं खु सीलवंतो, असीलवंतेहिं मीलिओ संतो । पावइ गुणपरिहाणं, मेलणदोसाणुभावेणं । । खणमवि न खमं काउं, अणाययणसेवणं सुविहियाणं। हंदि समुद्दमइगयं, उदयं लवणत्तणमुवेइ - इति ।
तस्मादार्यत्वमुपतिष्ठेत्
आर्यत्वानुविद्धभावैकप्रतिपत्ता
भवेत्, यद्वा वक्ष्यमाणान्याज्ञानादीनि प्रतिपद्येत । यतः - जे जणाऽणारिए णिच्वं, कम्मं कुव्वंतऽणारिया । अणारिएहि य मित्तेहि, सीदंति भवसागरे । ।१९-३॥ येनार्या जना नित्यम् - सङ्क्लेशानिवर्तनेनानिशम्, अनार्ये - हिंसादिदुष्टविषये, कर्म- पापकृत्यं कुर्वन्ति । तेनार्यैर्मित्रैस्तत्रैव
-
१. त्रिषष्टिशलाकापुरुषचरिते । २. आवश्यकनिर्युक्तौ । । ११२७ ।।
३. आवश्यकनिर्युक्तो ।।११२८-११३०, ११३३-११३५ ।।
Ashopnisad_2.p65 2nd Proof
१९६
• आर्षोपनिषद् - प्रणोदिताः सन्तः, भवसागरे - अज्ञानवज्रमयतले व्यसनशैलौघदुर्गमार्गे तृष्णानिलनिभृतपातालकलशे कषायवेलावृद्धिविताने कामौर्वाग्निजाज्वल्यमाने रोगशोकादिनक्रचक्रे संसारावारपारे, सीदन्ति - अनन्तशारीरमानसदुःखभाजो भवन्ति । चकारः परम्परहेतुसमुच्चये। अनार्यभावादिर्भवसागरे सीदनस्य साक्षाद्धेतुः, पारम्पर्येण तद्धेतुरिति
अनार्यमित्रसंसर्गस्त्वनार्यभावाद्यापादनेन
हृदयम् । तस्मात् -
संधिज्जा आरियं मग्गं, कम्मं जं वा वि आरियं । आरियाणि य मित्ताणि, आरियत्तमुवट्टिए । । १९-४।। आर्यं मार्गम् - सर्वपापनिवृत्तिमयं शिवसञ्चरम्, यत् कर्म वाऽप्यार्यम् - प्रशस्तमनोवाक्कायप्रवृत्तिलक्षणम् । अरणीयानि कल्याणकामैरभिगम्यानि - आर्याणि तानि च मित्राणि कल्याणमित्राणि गुरव इति यावत्, यथाह कल्लाणमित्ताणं इति । सन्धयेत् एतद्योगं कुर्यात् । एवं चार्यत्वमुपतिष्ठेत् - सर्वात्मना निरवद्यतामङ्गीकुर्यात् ।
गुरूणं
-
-
ननु प्रशस्तयोगत्रय एवार्यमित्रयोगसमावेशाद्व्यक्तैव पुनरुक्तिरिति चेत् ? न, तत्रितयबीजतया प्रधानत्वेन पृथग्निर्देशस्य न्यायानपेतत्वेन पुनरुक्तिभावेऽपि दोषविरहात्, तदुक्तम् - जाड्यं धियो हरति सिञ्चति वाचि सत्यं, मानोन्नतं दिशति पापमपाकरोति। चेतः प्रसादयति दिक्षु तनोति कीर्ति, सत्सङ्गतिः कथय किन्न करोति पुंसाम् ।। दूरीकरोति कुमतिं विमलीकरोति,
१. पञ्चसूत्रे ।।१ ।। २ नीतिशतके ।। २२ ।।