________________
ऋषिभाषितानि
१९१
-
सेवितुम्,
स्थितस्य – प्रतिपन्ननिष्पापवृत्तेः, न कल्पते-नैव युज्यते, पुनरपि सावद्यं अग्निप्रवेशादप्यधिकदारुणत्वात्प्रतिपन्नभङ्गस्य, उक्तं च - वरमगिम्मि पवेसो, वरं विसुद्धेण कम्मुणा मरणं । मा गहीयवयभंगो, मा जीयं खलियसीलस्स - इति । प्रमाणं चात्र पारमर्षम् - उब्बंधिऊण मरियव्वं, नो चरित्तं विराहए इति । इतश्च प्रतिपन्नमनुपालनीयम्, महाफलत्वादित्याह
एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।।
प्राग्वत् । इति सप्तदशमविदुनामाध्ययन
एवमित्यादि
आर्षोपनिषद् ।
।। अथाष्टादशमाध्यायः ।।
अनन्तराध्ययने निरवद्यवृत्तिरुपदिष्टा, अत्रापि सावद्येतरफलज्ञापनेन सैवोपदिश्यते
अयते खलु भो जीवे वज्जं समादियति । से कहमेतं ?
पाणातिवाएणं जाव परिग्गहेणं अरति जाव मिच्छादंसणसल्लेणं वज्जं समाइत्ता हत्थच्छेयणाई पायच्छेयणाई जाव अणुपरियद्वंति णवमुद्देसगमेणं ।
जे खलु भो ! जीवे णो वज्जं समादियति, से कहमेतं ?, वरिसकण्हेण अरहता इसिणा बुइतं पाणाइवातवेरमणेणं जाव मिच्छादंसणसल्लवेर१. महानिशीथे । । ६-८ । । एतदपि अष्टगुणतपःप्रभृतिप्राक्तनविधिनानु-पशान्तविषयोदयस्य विज्ञेयम्, न तु यथाकथञ्चित् ।
-
-
-
Ashopnisad_2.p65 2nd Proof
१९२
आर्षोपनिषद् -
वज्जं मणेणं, सोइंदियता (तृ) णिग्गहेणं णो समज्जिणित्ता हत्यच्छेयणाई पायच्छेयणाई जाव दोमणस्साइं वीतिवतित्ता सिवमचल जाव चिट्ठति
।।१८-१ ।।
अयतः - यमनियमवर्जितः, खलु भो ! जीवोऽवद्यम् - पापम्, समादाति- उपादत्ते, पापकर्मण्यप्रवृत्तोऽप्यविरतिप्रत्ययिकं कर्म बनातीत्यर्थः । स कथमेतत् ? इति प्रश्ने पापादानप्रक्रियां तत्फलं च प्रतिपादयति जीवाः प्राणातिपातेन यावत् परिग्रहेण, अरति० यावन् मिथ्यादर्शनशल्येनाऽवद्यं समादाय हस्तछेदनानि पादछेदनानि यावदनुपरिवर्तन्ते इति नवमोद्देशकगमेन नेतव्यम् ।
यः खलु भो ! जीवो नोऽवद्यं समादाति, स कथमेतत् ? - कथं पापादानं निरुणद्धि ? एतद्वर्ष कृष्णेनार्हतर्षिणोदितम् प्राणातिपातविरमणेन यावन्मिथ्यादर्शनशल्यविरमणेन, श्रोत्रेन्द्रियनिग्रहेण यावत् स्पर्शनेन्द्रियनिग्रहेण नोऽवद्यं समर्ज्य हस्तछेदनानि पादछेदनानि यावद् दौर्मनस्यानि व्यतिव्रज्य शिवमचलं यावत् तिष्ठन्ति । अत्रैव निदर्शनान्याह -
-
-
सकुणी संकुप्पघातं च, वरत्तं रज्जुगं तहा। वारिपत्तधरो च्चेव, विभागम्मि विहावए । । १८-२।। शकुनिः शङ्कुप्रघातं च वरत्रं रज्जूकं तथा
१. 'ता' इति प्राचीनपरम्परागतस्य पञ्चसङ्ख्यानिदर्शकस्य 'तू' इत्यक्षराकस्य लिपिविकारः सम्भाव्यते । ततः पञ्चेन्द्रियनिग्रहेणेत्यभिधेयार्थः । २. ऋषिभाषिते । । ९२ ।। ३. ऋषिभाषिते । । ९-३ ।।