________________
10
७६]
[ श्रीगिरिनारपर्वतस्थाः प्रशस्तिशिलालेखाः इह वालिगसुतसहजिगपुत्राऽऽनकतनुजवाजडतनूजः । अलि(*)खदिमां कायस्थः, स्तम्भपुरीयध्रुवो जयतसिंहः ॥१॥ हरिमण्डप-नन्दीश्वरशिल्पीश्वरसोमदेवपौत्रेण । बकुलस्वामिसुतेनोत्कीर्णा पुरुषोत्तमेनेयम् ॥२॥ श्रीनेमेस्त्रिजगद्भर्तुरम्बायाश्च प्रसादतः ।
वस्तुपालान्वयस्यास्तु , प्रशस्तिः स्वस्तिशालिनी ॥३॥ महामात्यश्रीवस्तुपालस्य प्रशस्तिरियं ६०३ महामात्यश्रीवस्तुपालभार्या महं० श्रीसोखुकाया धर्मस्थानमिदम् ॥
(गिरनार इन्स्क्रिप्शन्स् नं० २। २३-२४) (४०-३)
|| ॐ नमः सर्वज्ञाय ॥ प्रणमदमरप्रेङ्घन्मौलिस्फुरन्मणिधोरणीतरुणकिरणश्रेणीशोणीकृताखिलविग्रहः । सुरपतिरकरोन्मुक्तैः स्नात्रोदकैघुसृणारुण
प्लुततनुरिवापायात् पायाज्जगन्ति शिवाङ्गजः ॥१॥ स्वस्ति श्रीविक्रमसंवत् १२८८ वर्षे फागुण शुदि १० बुधे श्रीमदणहिलपुरवास्तव्यप्रा(*)ग्वाटान्वयप्रसूत ठ० श्रीचण्डपालात्मज ठ० श्रीचण्डप्रसादाङ्गज ठ० श्रीसोमतनुज ठ० श्रीआशाराजनन्दनस्य ठ० श्रीकुमारदेवीकुक्षिसंभूतस्य ठ० श्रीलुणिग
महं० श्रीमालदेवयोरनुजस्य महं० श्रीतेज:पालाग्रजन्मनो महामात्यश्रीवस्तुपालस्यात्मजे 20 महं० श्रीललितादेवीकुक्षिसरोवरराजहंसायमाने (*) महं० श्रीजयन्तसिंहे सं० ७९ वर्षपूर्वं
स्तम्भनकतीर्थमुद्राव्यापार व्यापृण्वति सति सं० ७७ वर्षे श्रीशत्रुजयोज्जयन्तप्रभृतिमहातीर्थयात्रोत्सवप्रभावाविर्भूत श्रीमद्देवाधिदेवप्रसादासादितसंघाधिपत्येन चौलुक्यकुलनभस्तलप्रकाशनैकमार्तण्डमहाराजाधिराजश्रीलवणप्रसाददेवसुतमहाराज
श्रीवीरधवल(*)देवीप्रीतिप्रतिपन्नराज्यसर्वैश्वर्येण श्री-शारदाप्रतिपन्नापत्येन महामात्य25 श्रीवस्तुपालेन तथाऽनुजेन सं० ७६ वर्षपूर्वं गूर्जरमण्डले धवलक्ककप्रमुखनगरेषु
१. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ४०सङ्ख्यगिरिनारसत्कप्रशस्तावपि प्रान्तभागे वर्त्तते ॥ २. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ४०-४१सङ्ख्यगिरिनारप्रशस्त्योरपि प्रान्तभागे दृश्यते॥३. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ३८-४०-४२-४३सङ्ख्यगिरिनारप्रशस्तिष्वपि प्रान्तभागे वर्तते ॥
15
D:\sukarti.pm5\3rd proof