________________
नवमं परिशिष्टम् ]
[७७ मुद्राव्यापारान् व्यापृण्वता महं० श्रीतेजःपालेन च श्रीशत्रुजया-ऽर्बुदाचलप्रभृतिमहातीर्थेषु श्रीमदणहिलपुर-भृगुपुर-स्तम्भनकपुरस्तम्भतीर्थ-दर्भवती-धव(*)लक्ककप्रमुखनगरेषु तथाऽन्यसमस्तस्थानेष्वपि कोटिशोऽभिनवधर्मस्थानानि प्रभूतजीर्णोद्धाराश्च कारिताः । तथा सचिवेश्वरवस्तुपालेनेह स्वयंनिर्मापितश्रीशत्रुजयमहातीर्थावतारश्रीमदादितीर्थंकरश्रीऋषभदेव-स्तम्भनकपुरावतारश्रीपार्श्वनाथदेव-सत्यपुरावतारश्रीमहावीरदेव- 5 (*)प्रशस्तिसहित-कश्मीरावतारश्रीसरस्वतीमूर्तिदेवकुलिकाचतुष्टय-जिनयुगला-ऽम्बाऽवलोकनाशाम्ब-प्रद्युम्नशिखरेषु श्रीनेमिनाथदेवालंकृतदेवकुलिकाचतुष्टय-तुरगाधिरूढनिजपितामह ठ० श्रीसोम-स्वपितृ ठ० श्रीआशाराजमूर्तिद्वितय-कुंजराधिरूढमहामात्यश्रीवस्तुपालानुज महं० श्रीतेजःपालमूर्तिद्वय-चारुतोरणत्रय-श्रीनेमिनाथदेवआत्मीयपूर्वजा-ऽग्रजा-ऽनुज-पुत्रादिमूर्तिसमन्वितमुखोद्घाटनकस्तम्भश्रीसंमेत- 10 महातीर्थप्रभृतिअनेककीर्तनपरम्पराविराजिते श्रीनेमिनाथदेवाधिदेवविभूषितश्रीमदुज्जयन्तमहातीर्थे आत्मनस्तथा स्वभार्यायाः प्राग्वाटज्ञातीय ठ० श्रीकान्हडपुत्र्याः ठः (*) राणुकुक्षिसंभूताया महं० श्रीसोखुकायाः पुण्याभिवृद्धये श्रीनागेन्द्रगच्छे भट्टारकश्रीमहेन्द्रसूरिसंताने शिष्यश्रीशान्तिसूरिशिष्यश्रीआणन्दसूरि-श्रीअमरसूरिपट्टे भट्टारकश्रीहरिभद्रसूरिपट्टालंकरणप्रभुश्रीविजयसेनसूरिप्रतिष्ठितऋषभदेवालंकृतोऽयमभि- 15 नवः समण्डपः श्रीअष्टापदमहातीर्थावतारनिरुपमप्रधानप्रासादः कारितः ॥
प्रासादैर्गगनाङ्गणप्रणयिभिः पातालमूलङ्कषैः, कासारैश्च सितैः सिताम्बरगृहैर्नीलैश्च लीलावनैः । येनेयं नयनिजितेन्द्रसचिवेनालङ्कृताऽलं क्षितिः, क्षेमैकायतनां चिरायुरुदयी श्रीवस्तुपालोऽस्तु सः ॥१॥ सन्दिष्टं तव वस्तुपाल ! बलिना विश्वत्रयीयात्रिकान्मत्वा ना(*)रदतश्चरित्रमिति ते हृष्टोऽस्मि नन्द्याश्चिरम् । नार्थिभ्यः क्रुधमर्थितः प्रथमयसि स्वल्पं न दत्से न च, स्वश्लाघां बहु मन्यसे किमपरं ? न श्रीमदान्मुह्यसि ॥२॥ अरिबलदलनश्रीवीरनामाऽयमुर्त्यां, सुरपतिरवतीर्णस्तर्कयामस्तदस्य। 25 निवसति सुरशाखी वस्तुपालाभिधानः, सुरगुरुरपि तेजःपालसंज्ञः समीपे ॥३॥ उदारः शूरो वा (*) रुचिरवचनो वाऽस्ति न हि वा, भवत्तुल्यः कोऽपि क्वचिदिति चुलुक्येन्द्रसचिव ! ।
D:\sukarti.pm5\3rd proof