________________
नवमं परिशिष्टम् ]
[७५ श्रीहरिभद्रसूरिपट्टालंकरणश्रीविजयसेनसूरिप्रतिष्ठितश्रीऋषभदेवप्रमुखचतुर्विंशतितीर्थंकरालंकृतोऽयमभिनवः समण्ड(*)प: श्रीसमेतमहातीर्थावतारप्रधानप्रासादः कारितः ॥
चेतः किं कलिकाल ! सालसमहो ! किं मोह ! नो हस्यते ?, तृष्णे ! कृष्णमुखाऽसि किं ? कथय किं विघ्नौघ ! मोघो भवान् ? । 5 ब्रूमः किं नु सखे ! ? न खेलति किमप्यस्माकमुज्जृम्भितं, सैन्यं यत् किल वस्तुपालकृतिना धर्मस्य संवर्मितम् ॥१॥ यं विधुं बन्धवः सिद्धमर्थिनः शत्र (*)............। .........ण.......पश्यन्ति, वर्ण्यतां किमयं मया ? ॥२॥ वैरं विभति-भारत्योः प्रभत्व-प्रणिपातयोः । तेजस्विता-प्रशमयोः, शमितं येन मन्त्रिणा ॥३॥ दीपः स्फूर्जति सज्जकज्जलमलः स्नेहं मुहुः संहरन्निन्दुर्मण्डलवृत्तखण्डनपर: प्रद्वेष्टि मित्रोदयम् । सूरः क्रूरतरः परस्य सहते तेजो न तेजस्विनस्तत् केन प्रतिमं ब्र(*)वीमि सचिवं श्रीवस्तुपालाभिधम् ? ॥४॥ 15 आयाताः कति नैव यान्ति कति नो यास्यन्ति नो वा कति, स्थानस्थानिवासिनो भवपथे पान्थीभवन्तो जनाः ? । अस्मिन् विस्मयनीयबुद्धिजलधिविध्वस्य दस्यून् करे, कुर्वन् पुण्यनिधिं धिनोति वसुधां श्रीवस्तुपालः परम् ॥५॥ दधेऽस्य वीरधवलक्षितिपस्य राज्यभारे धुरन्धरधुरा (*)............। 20 श्रीतेजपालसचिवे दधति स्वबन्धुभारोद्धृतावविधुरैकधुरीणभावम् ॥६॥ इह तेजपालसचिवो, विमलितविमलाचलेन्द्रममृतभृतम् । कृत्वाऽनुपमसरोवरममरगणं प्रीणयाञ्चक्रे ॥७॥
एते श्रीमलधारिश्रीनरचन्द्रसूरीणाम् ॥ १. पद्यमिदं नरचन्द्रसूरिकृतवस्तुपालप्रशस्तौ तृतीयपद्यतयाऽपि वर्तते ॥ २. पद्यमिदं नरचन्द्रसूरिकृतवस्तुपालप्रशस्तौ २६पद्यतयाऽपि दृश्यते ॥३. पद्यमिदं धर्माभ्युदयमहाकाव्यनवमसर्गप्रान्तेऽपि दृश्यते ॥
D:\sukarti.pm5\3rd proof