________________
[ श्रीगिरिनारपर्वतस्था: प्रशस्तिशिलालेखाः (३९-२)
...यः पु ..... तयदुकुलक्षीरार्णवेन्दुर्जिनो, यत्पादाब्जपवित्रमौलिरसम श्रीरुञ्जयन्तोऽप्ययम् । धत्ते मूर्ध्नि निजप्रभुप्रसृमरोद्दामप्रभामण्डलो, विश्वक्षोणिभृदाधिपत्यपदवीं नीलातपत्रोज्ज्वलाम् ॥१॥ स्वस्ति श्रीविक्रमसंवत् १२८८ वर्षे फागुण शुदि १० बुधे श्रीमदणहिलपुर(*)वास्तव्यप्राग्वाटान्वयप्रसूत ठ० श्रीचण्डपालात्मज ठ० श्रीचण्डप्रसादाङ्ग ठ० श्रीसोमतनुज ठ० श्रीआशाराजनन्दनस्य ठ० श्रीकुमारदेवीकुक्षिसंभूतस्य ठ० श्रीलुणिग महं० श्रीमालदेवयोरनुजस्य महं० श्रीतेजःपालाग्रजन्मनो महामात्यश्रीवस्तुपालस्यात्मजे 10 महं० श्रीललितादेवी(*)कुक्षिसरोवरराजहंसायमाने महं० श्रीजयन्तसिंहे सं० ७९ वर्षपूर्वं [स्तंभतीर्थ] मुद्राव्यापारं व्यापृण्वति सति सं० ७७ वर्षे श्रीशत्रुंजयोज्जयन्तप्रभृतिमहातीर्थयात्रोत्सवप्रभावाविर्भूतश्रीमद्देवाधिदेवप्रसादासादितसंघाधिपत्येन चौलुक्यकुलनभस्तलप्रकाशनैकमार्तण्डमहाराजाधिराज श्रीलवण (*) प्रसाददेवसुतमहाराज श्रीवीरधवलदेवीप्रीतिप्रतिपन्नराज्यसर्वैश्वर्येण श्री - शारदाप्रतिपन्नापत्येन महामात्य श्रीवस्तुपालेन 15 तथाऽनुजेन सं० ७६ वर्षपूर्वं गूर्जरमण्डले धवलक्ककप्रमुखनगरेषु मुद्राव्यापारान् व्यापृण्वता महं० श्रीतेजःपालेन च श्रीशत्रुंजया - ऽर्बुदाचलप्रभृतिमहातीर्थेषु (*) श्रीमदणहिलपुरभृगुपुर-स्तम्भनकपुरस्तम्भतीर्थ-दर्भवती-धवलक्ककप्रमुखनगरेषु तथाऽन्यसमस्तस्थानेष्वपि कोटिशोऽभिनवधर्मस्थानानि प्रभूतजीर्णोद्धाराश्च कारिताः । तथा सचिवेश्वरवस्तुपालेनेह स्वयंनिर्मापित श्रीशत्रुंजयमहातीर्थावतार श्रीमदादितीर्थंकर श्रीऋषभदेव (*) 20 स्तम्भनकपुरावतार श्रीपार्श्वनाथदेव-सत्यपुरावतार श्रीमहावीरदेवप्रशस्तिसहितकश्मीरावतारश्रीसरस्वतीमूर्तिदेवकुलिकाचतुष्टय - जिनद्वया - ऽम्बाऽवलोकना - शाम्बप्रद्युम्नशिखरेषु श्रीनेमिनाथदेवालंकृतदेवकुलिकाचतुष्टय - तुरगाधिरूढस्वपितामह ० श्रीसोमनिजपितृ ठ० श्रीआशाराज (*) मूर्तिद्वितय- चारुतोरणत्रय-श्रीनेमिनाथदेवआत्मीय-पूर्वजा-ऽग्रजा-ऽनुज-पुत्रादिमूर्तिसमन्वितमुखोद्घाटनकस्तंभ श्री अष्टापद25 महातीर्थप्रभृति-अनेककीर्तनपरम्पराविराजिते श्रीनेमिनाथदेवाधिदेवविभूषित श्रीमदुज्जयन्तमहातीर्थे आत्मनस्तथा स्वभार्यायाः प्राग्वाटज्ञातीय ठ० श्रीकान्हडपुत्र्याः ठ० (*) राणुकुक्षिसंभूताया महं० श्रीसोखुकायाः पुण्याभिवृद्धये श्रीनागेन्द्रगच्छे भट्टारकश्रीमहेन्द्रसूरिसन्ताने शिष्यश्रीशान्तिसूरिशिष्य श्रीआनन्दसूरि-श्रीअमरसूरिपट्टे भट्टारक
5
७४]
D:\sukarti.pm5 \ 3rd proof