SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ अष्टमं परिशिष्टम् ] [६९ मुकुलितमकलोदयः कवीन्दुः, क इव न काव्यसुधानिधिर्बभूव ? । स्फुरदुरुविभवस्तु वस्तुपालः, कविसविता कविताप्रभाभिरामः ।।१२।। एकादशसर्गप्रान्ते ।। शूरो रणेषु चरणप्रणतेषु सोमो, वक्रोऽतिवक्रचरितेषु बुधोऽर्थबोधे । नीतौ गुरुः कृतिजने कविरक्रियासु , मन्दोऽपि च ग्रहमयो न हि वस्तुपालः ॥१३।। द्वादशसर्गप्रान्ते ।। श्रीवस्तुपाल ! जितबालमृणालगर्भे, शुभ्रं वितन्वति जगत् तव कीर्तिपूरे । मन्यामहे कुवल-कज्जल-कोकिला-ऽलिकाकोल-कोलसदृशामभिधा मुधाऽभूत् ॥१४॥ त्रयोदशसर्गप्रान्ते ।। लक्ष्म्यामाकृष्टिमुच्चाटनमनयवति स्तम्भमुज्जृम्भिदम्भे, दोषे विद्वेषमभ्यन्तररिपुषु मृतिं वश्यतां चित्तवृत्तौ । कर्तुं यद् वस्तुपाल ! प्रभवसि सकले मण्डले तत् तवैव, श्रीमन्मन्त्रीश ! मन्त्रे स्फुरति निरवधि: काऽपि षट्कर्मसिद्धिः ॥१५॥ चतुर्दशसर्गप्रान्ते ।। भवति हि विभवो भवः परेषां, तव विभवोऽभिनवस्तु वस्तुपाल ! । 15 इह महिममहो यशः प्रसूते, यदयममुत्र परत्र पुण्यलक्ष्मीम् ॥१६।। पञ्चदशसर्गप्रान्ते ।। अचिन्त्यदातारमजातशत्रु , श्रीवस्तुपालं कति नाश्रयन्ति ? । चिन्तामणिः सोऽपि युधिष्ठिरश्च, नान्वर्थसामर्थ्यपदं यदग्रे ॥१७॥ शङ्के शारदपर्वगवितशशिज्योत्स्नासपत्नं तव, त्रैलोक्ये गुणजालकं विलसति श्रीवस्तुपालाद्भुतम् । यत् तादृग्दृढपाशवैशसकृतातङ्काभिशङ्काः स्फुटं, नैवान्यस्य भवन्ति कीर्तिविरलाः खेलासु हेलास्पदम् ॥१८॥ षोडशसर्गप्रान्ते ।। 20 १. पद्यमिदं उदयप्रभीयवस्तुपालस्तुतौ चतुर्थं वर्त्तते, प्रबन्धकोशे "अपरस्तु" इत्युल्लेखेनोल्लिखितं वर्तते, उपदेशतरङ्गिण्यां कविवृन्दमध्यात् कस्यचिदुक्तितयोल्लिखितं च वर्त्तते, जिनहर्षीयवस्तुपालचरिते पुनः हरिहरोक्तितया निष्टङ्कितं दृश्यते ॥ २. पद्यमिदं जिनहर्षीयवस्तुपालचरिते "कृपालवालं श्रीवस्तुपालं स्तौति स्म कश्चन" । इत्युल्लेखेनोल्लिखितं वर्त्तते ॥ ३. पद्यमिदमुदयप्रभीयवस्तुपालस्तुतौ २५तमं वर्त्तते ।। D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy