________________
६८]
[वस्तुपालस्तुतिकाव्यानि करसरसिरुहं ते वासवेश्म श्रियोऽभूदजनि वदनपद्मं सद्म वाग्देवतायाः । इह जगति समस्ते वस्तुपाल ! स्तुमः कं ?, सचिवतिलक ! धन्यं तद् वदाऽन्यं वदान्यम् ॥५।। पञ्चमसर्गप्रान्ते ।। इतरगुणकथायाः काथिकत्वस्पृहायामिह वहति सहास्यं कस्य नो लास्यमास्यम् ? तव तु विततकीर्तेः कीर्तनं कर्तुकामः, सुरगुरुरपि शङ्के वस्तुपाल ! त्रपालुः ॥६॥ षष्ठसर्गप्रान्ते ।। जनव्यामोहवल्लीयमिन्दिरा मन्दिरे स्थिता । मन्त्रिणा वस्तुपालेन, कल्पवल्ली विनिर्मिता ||७|| सप्तमसर्गप्रान्ते ॥ श्रीवस्तुपालसचिवस्य परे कवीन्द्राः, कामं यशांसि कवयन्तु वयं तु नैव । येनेन्द्रमण्डपकृतोऽस्य यश:प्रशस्तिरस्त्येव शक्रहृदि शैलशिलाविशाले ॥८|अष्टमसर्गप्रान्ते ॥ करसरसिरुहं ते वासवेश्म श्रियोऽभूदजनि वदनपद्मं सद्म वाग्देवतायाः । इह जगति समस्ते वस्तुपाल !, स्तुमः कं ?, सचिवतिलक ! धन्यं तद् वदाऽन्यं वदान्यम् ॥९॥ नवमसर्गप्रान्ते ।। या श्री: स्वयं जिनपतेः पदपद्मसद्मा, भालस्थले सपदि सङ्गमिते समेता । श्रीवस्तुपाल ! तव भालनिभालनेन, सा सेवकेषु सुखसमुन्मुखतामुपैति ॥१०॥ दशमसर्गप्रान्ते ।। त्वत्कीर्तिज्योत्स्नया जाते, तीरे नीरेशितुः सिते ।
नेक्ष्यन्ते पक्षिभिर्वस्तुं , वस्तुपाल ! वनालयः ॥११।। १. पद्यमिदं नरनारायणानन्दमहाकाव्यनवमसर्गप्रान्तेऽपि वर्तते ॥ २. पद्यमिदं धर्माभ्युदयमहाकाव्यपञ्चमसर्गप्रान्ते, उदयप्रभीयवस्तुपालस्तुतौ च २४तमं वर्त्तते ॥ ३. पद्यमिदं नरनारायणान्दमहाकाव्यपञ्चमसर्गप्रान्तेऽपि वर्त्तते ॥ ४. पद्यमिदं धर्माभ्युदयमहाकाव्यतृतीयसर्गप्रान्तेऽपि वर्तते ॥
D:\sukarti.pm5\3rd proof