________________
अष्टमं परिशिष्टम् ॥
वस्तुपालस्तुतिकाव्यानि ॥ [महामात्यश्रीवस्तुपालविनिर्मितनरनारायणानन्दमहाकाव्यप्रतिसर्गप्रान्तगतानि
___ अन्यान्यकविविरचितानि वस्तुपालस्तुतिकाव्यानि ॥] सङ्ग्रामसिंहपृतनारुधिरारुणानि, श्रीवस्तुपालकरवालविजृम्भितानि । कीनाशकासरकटाक्षसहोदराणि, को नाम वीक्षितुमपि क्षमते विपक्षः ॥१॥ प्रथमसर्गप्रान्ते ॥ दृश्यः कस्यापि नायं प्रथयति न परप्रार्थनादैन्यमन्यस्तच्छामिच्छां विधत्ते तनहृदयतया कोऽपि निष्पण्यपण्यः । इत्थं कल्पद्रुमेऽस्मिन् व्यसनपरवशं लोकमालोक्य सृष्टः, स्पष्टं श्रीवस्तुपालः कथमपि विधिना नूतनः कल्पवृक्षः ? ॥२॥ द्वितीयपसर्गप्रान्ते ॥ श्रीवस्तुपाल ! कलिकालविलक्षणस्त्वं, संलक्ष्यसे जगति चित्रचरित्रपात्रम् । यद् दानसौरभवता भवता वितेने, नानेकपेन मदमेदुरिता मुखश्रीः ॥३॥ तृतीयसर्गप्रान्ते । गृह्णासि नाम परतोऽपि नवान् गुणांस्त्वं, त्यागो गुणस्तव नवस्तु न वस्तुपाल ! । लोकोत्तरस्तदपरस्य नरस्य स स्याद् , यत् तादृशो न हि दृशोः पथि मादृशानाम् ॥४।। चतुर्थसर्गप्रान्ते ।।
१. पद्यमिदं धर्माभ्युदयमहाकाव्यैकादशसर्गप्रान्ते वर्त्तते, उदयप्रभीयवस्तुपालस्तुतौ २३तमं वर्तते, जिनहर्षीयवस्तुपालचरिते "कृपालवालं श्रीवस्तुपालं स्तौति स्म कश्चन" । इत्युल्लेखेन निर्दिष्टं चापि वर्त्तते ॥ २. पद्यमिदमुदयप्रभीयवस्तुपालस्तुतौ २२तमं वर्त्तते ॥
15
20
D:\sukarti.pm5\3rd proof