________________
७०]
[वस्तुपालस्तुतिकाव्याम् वस्तुपालस्तुतिकाव्यम् ॥ श्रीवस्तुपालमन्त्रिणा सौवर्णमषीयाक्षरा एका सिद्धान्तप्रतिर्लेखिता । अपरास्तु श्रीताडकागदपत्रेषु मषीवर्णाञ्चिताः ६ प्रतयः । एवं सप्तकोटिद्रव्यव्ययेन सप्त सरस्वतीकोशा लेखिताः । तदनु श्रीउदयप्रभसूरिभिराशीर्वादः प्रदत्तः । तद्यथा
जम्बूद्वीपो जलधिपरिखाभूषितो यावदास्ते, ज्योतिश्चक्रं सुरगिरितटीं पर्यटत्येव यावत् । यावत् कूर्मो वहति वसुधां त्वद्यशःपुञ्जसार्धं, जीयाज्जैनं मुखमिव परं पुस्तकं वस्तुपाल ! ॥१॥
उपदेशतरङ्गिणी पत्रम् १४२।।
D:\sukarti.pm5\3rd proof