________________
पञ्चमं परिशिष्टम् ]
[५१ दृश्यन्ते मणि-मौक्तिकस्तबकिता यद्विद्वदेणीदृशो, यज्जीवन्त्यनुजीविनोऽपि जगतश्चिन्ताश्मविस्मारिणः । यच्च ध्यानमुचः स्मरन्ति गुरवोऽप्यश्रान्तमाशीगिरः, प्रादुष्षन्त्यमला यशःपरिमला श्रीवस्तुपालस्य ते ॥१४॥ कोटीरैः कटका-ऽङ्गलीय-तिलकैः केयूर-हारादिभिः, कौशेयैश्च विभूष्यमाणवपुषो यत्पाणिविश्राणितैः । विद्वांसो गृहमागताः प्रणयिनीरप्रत्यभिज्ञाभृतस्तैस्तैः स्वं शपथैः कथं कथमपि प्रत्याययाञ्चक्रिरे ॥१५॥ तैस्तैर्येन जनाय काञ्चनचयैरश्रान्तविश्राणितैरानिन्ये भुवनं तदेतदभितोऽप्यैश्वर्यकाष्ठां तथा । दानैकव्यसनी स एव समभूदत्यन्तमन्तर्यथा, कामं दुधृतिधामयाचकचमूं भूयोऽप्यसम्भावयन् ।।१६।। आगो यद्वसुवारिवारितजगद्दारिधदावानलश्चेतः कण्टककुट्टनैकरसिकं वर्णाश्रमेष्वन्वहम् । सङ्ग्रामश्च समग्रवैरिविपदामद्वैतवैतण्डिकस्तन्मध्ये वसति त्रिधाऽपि सचिवोत्तंसेऽत्र वीरो रसः ॥१७।। आश्चर्यं वसुवृष्टिभिः कृतमन:कौतूहलाकृष्टिभिर्यस्मिन् दानघनाघने तत इतो वर्षत्यपि प्रत्यहम् । दूरे दुर्दिनसङ्कथाऽपि सुदिनं तत्किञ्चिदासीत् पुनपैनोर्वीवलयेऽत्र कोऽपि कमलोल्लासः परं निर्मितः ॥१८॥ 20 साक्षाद् ब्रह्म परं धरागतमिव श्रेयोविवतैः सतां, तेजःपाल इति प्रतीतिमहिमा तस्यानुजन्मा जयी । यो धत्ते न दशां कदापि कलितावद्यामविद्यामयीं,
यं चोपास्य परिस्पृशन्ति कृतिनः सद्यः परां निर्वृतिम् ॥१९॥ १. पद्यमिदं नरेन्द्रसूरिनाम्ना प्राचीनलेखसङ्ग्रह भाग २ गत ४१सङ्ख्यगिरिनारसत्काशिलालेखे द्वितीयपद्यतयाऽपि विद्यते ॥ २. पद्यमिदं नरेन्द्रसूरिनाम्ना प्राचीनलेखसङ्ग्रह भाग २ मध्ये ४१सङ्ख्यगिरिनारसत्कशिलालेखे द्वादशपद्यतयाऽपि वर्त्तते ॥ ३. प्रसिद्धम गिरिनारशिलालेखे ॥
15
D:\sukarti.pm5\3rd proof