________________
5
४८]
[वस्तुपालप्रशस्तिः तत्पदे विजयसेनसूरयः, पूरयन्ति कृतिनां मनोरथान् । वस्तुपालजिनबिम्बपद्धतिजृम्भते जगति यत्प्रतिष्ठिता ॥१०१॥ अत्यद्भुतैः कृत्यशतैरजस्रं, योऽसाधयद्धर्ममतुल्यकर्म ।
श्रीवस्तुपालः सचिवावतंसः, प्रकल्पतां कल्पशतायुरेषः ॥१०२।। यो विद्वद्भिरप्येवं स्तूयते
त्यागाराधिनि राधेयेऽप्येककर्णैव भूरभूत् । उदिते वस्तुपाले तु , द्विकर्णा वर्ण्यतेऽधुना ॥१०३॥ जज्ञे हर्षपुरीयगच्छतिलक: श्रीमन्मुनीन्दुप्रभुर्देवानन्दगुरुस्ततस्तदपर: सूरिश्च देवप्रभः । तच्छिष्यैर्नरचन्द्रसूरिगुरुभिर्दत्तप्रतिष्ठोदय
स्तामेतामतनोत् प्रशस्तिमतुलां सूरिनरेन्द्रप्रभः ॥१०४|| इति श्रीनरेन्द्रप्रभसूरिविरचिता मन्त्रीश्वरवस्तुपालप्रशस्तिः ॥
D:\sukarti.pm5\3rd proof