________________
[४७
चतुर्थं परिशिष्टम् ]
चण्डप्रसादपुण्यं वर्द्धयितुं योऽवलोकनाशिखरे । स्थापितवान् नेमिजिनं, तन्मूर्ति स्वस्य मूर्ति च ॥१०॥ प्रद्युम्नशिखरे सोमश्रेयसे नेमिनं जिनम् । सोममूर्ति तथा तेजःपालमूर्ति च योऽतनोत् ॥९१।। यः शाम्बशिखरे नेमिजिनेन्द्र श्रेयसे पितुः । .............तन्मूर्ति च, कारयामास भक्तितः ॥१२॥ वस्त्रापथे जगत्यां, भवनाम्नः शूलिनो भवनमतुलम् । उद्धरति स्म विवेकी, तेजःपालस्तदनुजन्मा ॥९३।। पुरतः कालमेघस्य, क्षेत्रपालस्य कारितः । अश्विनोर्मण्डपस्तत्र, तेनैव मतिशालिना ॥९४।। प्रीतो वस्त्रापथभुवि पुरा यद् ददौ तापसानां, सङ्घः किञ्चित् तदिदमधुना प्रापितं तैः करत्वम् । ग्रामोद्धारदखिलमपि तन्मोचयामास तेभ्यस्तेजःपालः सुकृतकृतधीर्वस्तुपालानुजन्मा ॥९५।। स्ववंश्यमूर्तिभिः श्रीमन्नेमिनाथेन चान्वितः । मुखोद्घाटनकस्तम्भे, वस्तुपालेन निर्ममे ॥९६।। आशाराजस्य पितुः, पितामहस्यापि सोमराजस्य । मूर्तियुगमत्र मन्त्री, व्यधापयत् तुरगपृष्ठस्थम् ॥९७।। द्वारे यत् किल दक्षिणामनुगतं यच्च प्रतीच्यां स्थितं, यत् कौबेरदिगाश्रितं च सदनं श्रीनेमिनाथप्रभोः । कामं मण्डयति स्म तानि सचिवोत्तंसः स यैस्तोरणैदृष्टिस्तद्विभवं विभाव्य जगतो नान्यत्र विश्राम्यति ॥९८॥ गुरुः कुलेऽस्य नागेन्द्रगच्छव्योमार्यमाऽभवत् । श्रीमहेन्द्रप्रभः श्रीमान् , शान्तिसूरिस्ततः श्रुतः ॥१९॥ आनन्द-ऽमरसूरी, तदीयगच्छाब्धिकौस्तुभप्रतिमौ ।
तदनु हरिभद्रसूरिः, शमरत्नमहोदधिः समभूत् ॥१००।। १. पीठो व प्रतौ ॥
25
D:\sukarti.pm5\3rd proof