________________
४६]
10
[वस्तुपालप्रशस्तिः श्रीवस्तुपालस्य कयाऽतिभक्त्या, नेमिः समाकृष्यत ? कौतुकं नः । इतीव तस्मिन्नवलोकना-ऽम्बाप्रद्युम्न-शाम्बा: सममभ्युपेयुः ॥८०।। तत्राऽऽत्मस्वामिनो वीरधवलस्य धरापतेः । स्वर्द्विपाभद्विपारूढां, मूर्ति स्थापयति स्म यः ॥८१॥ अत्रैव शत्रुञ्जयशैलमौलौ, नन्दीश्वरद्वीपगतान् जिनेन्द्रान् । तस्यानजः स्थापयति स्म तेज:पालाभिधानो यशसां निधानम् ॥८२॥ धर्मस्थानमिदं विलोक्य जगतामन्दकन्दोदयाप्रावृट्कल्पमनल्पसम्भ्रमभरान्नन्दीश्वराख्यं जनः । तेजःपालयशांसि मांसलरसं गायन् मुहुर्गायते, मन्ये नूतनवस्तुसंस्तववशोद्भूतां प्रभूतां मुदम् ॥८३।। अनुपमदेव्यास्तेन, स्वप्रेयस्याः प्रभूतसुकृताय । आदिजिनेश्वरपुरतो, विदधेऽनुपमासरश्च नवम् ।।८४॥ विशेषके रैवतकस्य भूभृतः, श्रीनेमिचैत्ये जिनवेश्मसु त्रिषु । श्रीवस्तुपाल: प्रथमं जिनेश्वरं, पाश्र्वं च वीरं च मुदा न्यवीविशत् ॥८५।। तदन्तिके च नि:शेषसुरा-ऽसुरनिषेविताम् । कारयामास यः काव्यकामधेनुं स्व( स )रस्वतीम् ॥८६॥ येनाऽऽत्मनः स्वपत्न्याश्च, स्वस्य भ्रातुः कनीयसः । तद्भार्यायाश्च शैवेयचैत्येऽकार्यन्त मूर्तयः ॥८७।। अम्बिकाभवने येन, मूर्तिः स्वस्यानुजस्य च । जगन्नेत्रसुधावृष्टिः, कारिता चारिमास्पदम् ॥८८।। तदीये शिखरे नेमि, चण्डपश्रेयसे च यः । मूर्ति रम्यां तदीयां च, मल्लदेवस्य च व्यधात् ॥८९।।
15
25
D:\sukarti.pm5\3rd proof