________________
तृतीयं परिशिष्टम् ॥ मलधारिश्रीनरचन्द्रसूरिसूत्रिता
वस्तुपालप्रशस्तिः ॥ स वः श्रेयः शत्रुञ्जयशिखरशीपैंकमुकुटः, प्रदोषान्तध्वान्तव्यतिकरनिकाराम्बरमणिः । भवभ्रान्तिश्रान्तिव्यपनयनदीष्णामृतसरः, सनाभिः श्रीनाभिप्रभवजिननाथः प्रथयतु ॥१॥ श्रीप्राग्वाटकुलेऽत्र चण्डपसुताच्चण्डप्रसादादभूत् , पुत्रः सोम इति प्रसिद्धमहिमा तस्याश्वराजोऽङ्गजः । तस्माल्लूणिग-मल्लदेवसचिवौ श्रीवस्तुपालस्तथा, तेजःपाल इति श्रुतास्तनुभुवश्चत्वार एतेऽभवन् ॥२॥ चेतः किं कलिकाल ! सालसमहो ! कि मोह ! नो हस्यते ? । तृष्णे ! कृष्णमुखाऽसि किं ? कथय किं विघ्नौघ ! मोघो भवान् ? । ब्रूमः किं न सुखे ! न खेलति किमप्यस्माकमुज्जृम्भितं, सैन्यं यत् किल वस्तुपालकृतिना धर्मस्य संवर्मितम् ॥३।।
चमस्य सवामतम् ॥३ दुर्गः स्वर्गगिरिः स कल्पतरुभिर्भेजे न चक्षुष्पथे, तस्थौ कामगवी जगाम जलधेरन्तः स चिन्तामणिः । कालेऽस्मिन्नवलोक्य याचकचमूं तिष्ठेत कोऽन्यस्ततः, स्तुत्यः सोऽस्तु न वस्तुपालसुकृती दानैकवीरः कथम् ? ॥४॥
15
१. पद्यमिदं नरचन्द्रसूरिनाम्ना निदिष्टं प्राचीनलेखसङ्ग्रह भाग २ मध्ये ३९ सङ्ख्यगिरिनारशिलालेखे प्रथमपद्यतया वर्तते ।। २. पद्यमिदं नरचन्द्रनाम्ना निर्दिष्टं प्राचीनलेखसङ्ग्रह भाग २ मध्ये ४२सङ्ख्यगिरिनारसत्कशिलालेखे पञ्चमपद्यताऽपि दृश्यते ॥ ३. °क्य अस्य करुणं तिष्ठेत कोऽस्यः स्यतः पुण्यः सोऽस्तु गिरिनारशिलालेखे ॥
D:\sukarti.pm5\3rd proof